SearchBrowseAboutContactDonate
Page Preview
Page 532
Loading...
Download File
Download File
Page Text
________________ ऽध्यायः ] प्राप्तकालभगवत्समाराधनविधौराजधर्मवर्णनम्। १०७१ ईश्वरस्याऽऽत्मनश्चापि ज्ञानं विद्येति चोच्यते । तथाविधेषु पागेषु दत्त्वा भूमिं धनं नृपः ॥२२३ शासनं कारयेत्सम्यक् स्वहस्तलिखितादिभिः । उपजीव्योपसर्पच्च रम्ये देशे नृपोत्तमः ॥२२४ दुर्गाणि तत्र कुर्वीत जनकस्यात्मगुप्तये । तत्र कर्मसु निष्णातान् कुशलान् धर्मनिष्ठितान् ॥२२५ सत्यशौचयुतान् शुद्धानध्यक्षान् स्थापयेत् नृपः। अशीतिभागो वृद्धिः स्यान्मासि मासि सबन्धके ॥२२६ अबन्धके स्याद्विगुणं यथा तत्कालमात्रकम् । लेखयेत्तहणं सम्यक् समामासादिकल्पनैः ।।२२७ देयं सवृद्धयाधविके(धनिने) पुरुषैत्रिभिरेव तत् । निर्धनस्तु शनैर्दद्याद्यथाकालं यथोदयम् ॥२२८ औद्धत्याद्वा बलाद्वा तु न दद्याद्धनिने भृणम् । दण्डयित्वैव तं राजा धनिने दापयेहणम् ।।२२६ छिन्ने दग्धेऽथवा पत्रे साक्षिभिः परिकल्पयेत् । वस्त्रधान्यहिरण्यानां चतुस्त्रिद्विगुणादिभिः ।।२३० न सन्ति साक्षिण स्तत्र देशकालान्तरादिभिः । शोधयित्वा तु दिव्येन दापयेद्धनिने ऋणम् ॥२३१ मध्यस्थस्थापितं द्रव्यं वर्धते न ततः परम् । कृते प्रतिग्रहे चाऽऽधौ पूर्वो वै बलवत्तरः ।।२३२ अवधिर्द्विविधं प्रोक्तं भोग्यं गोप्यं तथैव च । क्षेत्रारामादिकं भोग्यं गोप्यं द्रव्यमुपस्करम् ॥२३३
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy