SearchBrowseAboutContactDonate
Page Preview
Page 500
Loading...
Download File
Download File
Page Text
________________ ऽध्यायः] भगवन्मन्त्रविधानवर्णनम् । १०३६ शङ्खचक्रधनुर्वाणपाणिनं सुमहाबलम् । लक्ष्मणानुचरं रामं ध्यावा राक्षसनाशनम् ।।२८३ सहस्रन्तु जपेन्मन्त्रं सर्वापद्भ्यो विमुच्यते । सूर्योदये यथा नाशमुपैति ध्वान्तमाशु वै ।।२८४ तथैव रामस्मरणाद्विनाशं यान्त्युपद्रवाः । एवं श्रीराममन्त्रत्य विधानं ज्ञायते नृप ! ।।२८५ विधानं कृष्णमन्त्रस्य वक्ष्यामि शृणु पार्थिव !। श्रीकृष्णाय नमो ह्येष मात्रः सर्वार्थसाधकः ।।२८६ कृष्णेति मङ्गलं नाम यस्य वाचि प्रवर्त्तते । भस्मोभवन्ति राजेन्द्र ! मापातककोटयः ।।२८७ सकृत् कृष्णेति यो ब्रूयाद् भक्त्या वापि च मानवः। पापकोटिविनिर्मुक्तो विष्णुलोकमवाप्नुयात् ।।२८८ अश्वमेवसहस्राणि राजसूयशतानि च । भक्त्या कृष्णम जप्त्या समाप्नोति न संशयः ।।२८६ गवाञ्च कन्यकानाञ्च प्रामाणाञ्चायुतानि च । दत्त्वा गोदावरी कृष्णा यमुना च सरस्वती ।।२६० कावेरी चन्द्रभागादिस्नानं कृष्णेति योऽसमम् । कृष्णेति पञ्चजत्वा सर्वतीर्थफलं लभेत् ।।२६१ कोटिजन्मार्जितं पापं ज्ञानतोऽज्ञानतः कृतम् । भक्त्या कृष्णमर्नु जात्वा दह्यते तूलराशिवत् ।।२६२ अगम्यागमनात्पापादभक्ष्याणाञ्च भक्षणात् । सकृत् कृष्णमर्नु जत्त्वा मुच्यते नात्र संशयः।२६३
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy