SearchBrowseAboutContactDonate
Page Preview
Page 497
Loading...
Download File
Download File
Page Text
________________ १०३६ __ वृद्धहारीतस्मृतिः। [तृतीयोध्यायेत्कमलपत्राक्षं जानकीसहितं हरिम् । नैव ध्यानं प्रकुर्वीत विग्रहे सति शाङ्गिणः ॥२५० चन्दनागुरुकर्पूरवासिते रत्नमण्डपे । वितानैः पुष्पमालायै धूपैर्दिव्यैर्विराजिते ॥२५१ तन्मध्ये कल्पवृक्षस्य छायायां परमासने । नानारत्नमये दिव्ये सौवर्णे सुमनोहरे ॥२५२ तस्मिन् बालार्क सङ्काशे पङ्कजेऽष्टदले शुभे। वीरासने समासीनं वामाङ्काश्रितसीतया ॥२५३ सुस्निग्धशाद्वलश्यामं कोटिवैश्वानरप्रभम् । युवानं पद्मपत्राक्षं कनकाम्बरशोभितम् ॥२५४ सिंहस्कन्धानुरूपांसं कम्बुग्रीवं महाहनुम् । पीनवृत्तायतस्निन्धमहाबाहुचतुष्टयम् ।।२५५ . विशालवक्षसं रक्तहस्तपादतलं शुभम् । बन्धूकस्मितमुक्ताभदन्तोष्ठद्वयशोभितम् ।।२५६ पूर्णचन्द्राननं स्निग्धं भ्र युगं घननासिकम् । रम्भोरुद्वयमानीलकुन्तलं स्मितचन्दनम् ।।२५७ तरुणादित्यसङ्काशकुण्डलाभ्यां विराजितम् । हारकेयूरकटकैरङ्गुलीयैश्च भूषणैः ।।२५८ श्रीवत्सकौस्तुभाभ्याञ्च वैजयन्त्या विभूषितम् । हरिचन्दनलिप्ताङ्ग कस्तुरीतिलकाञ्चितम् ॥२५६ शङ्खचक्रधनुर्वाणान् विभ्राणं दोभिरायतैः। वामाङ्क सुस्थितां देवीं तप्तकाश्चनसन्निभाम् ॥२६०
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy