SearchBrowseAboutContactDonate
Page Preview
Page 473
Loading...
Download File
Download File
Page Text
________________ १०१२ वृद्धहारीतस्मृतिः । एनं रक्ष जगन्नाथ ! केवलं कृपया तव । अर्चनं यत्कृतं तेन बिभो ! स्वीकर्त्तु मर्हसि ॥१४६ एवं लब्धा गुरोर्विम्बं पूजयेत्तं प्रयत्नतः । हिरण्यवस्त्राभरणमानशय्यासनादिभिः ॥ १५० ततः प्रभृति देवेशमर्थयेद्विधिना सदा । श्रौतस्मार्त्तागमोक्तानां ज्ञात्वान्यतममच्युतम् ॥१५१ इति वृद्धहारीतस्मृत्यां विशिष्टधर्मशास्त्रे पश्वसंस्कारविधानं नाम द्वितीयोऽध्यायः । ॥ तृतीयोऽध्यायः ॥ अथ भगवन्मन्त्रविधानवर्णनम् । अम्बरीष उवाच । भगवन् ! सर्वमन्त्राणां विधानं मम सुत्र ! । ब्रूहि सर्वमशेषेण प्रयोगं सार्थसंस्कृतम् ॥१ [ द्वितीयो हारीत उवाच । शृणु राजन् ! प्रवक्ष्यामि मन्त्रयोगमनुत्तमम् । यथोक्तं विष्णुना पूर्वं ब्रह्मणा परमात्मना ॥२ सर्वेषामेव मन्त्राणां प्रथमं गुह्यमुत्तमम् । मन्त्ररत्नं नृपश्रेष्ठ ! सद्यो मुक्ति फलप्रदम् ॥३
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy