SearchBrowseAboutContactDonate
Page Preview
Page 465
Loading...
Download File
Download File
Page Text
________________ १००४ वृद्धहारीतस्मृतिः । निरन्तरालं यः कुर्य्यादूर्ध्वपुण्ड्र द्विजाधमः । स हि तत्र स्थितं विष्णुं श्रियञ्चैव व्यपोहति ॥ ६८. अथेदमूर्ध्वपुण्ड्रन्तु यः करोति द्विजाधमः । कल्पकोटिसहस्राणि रौरवं नरकं व्रजेत् ॥६६ तस्माद्रागान्वितं पुण्ड्रन्धरेद्विष्णुपदाकृति । ललाटादिषु चाङ्गेषु सर्व्वकर्मसु वैष्णवः ॥७० नासिकामूलमारभ्य ललाटान्तेषु विन्यसेत् । अद्वयमात्रन्तु मध्यच्छिद्रं प्रकल्पयेत् ॥७१ पार्श्वे चारमात्रन्तु विन्यसेद् द्विजसत्तमः । पुण्ड्राणामन्तराले तु हारिद्रां धारयेच्छ्रियम् ॥७२ ललाटे पृष्ठयोः कण्ठे भुजयोरुभयोरपि । चतुरङ मात्रन्तु विभृवादायकं द्विजः ॥ ७३ उरस्यष्टाङ्गुलं धार्यं भुजयोरायतं तदा । उदरे पार्श्वयोन्नित्यमायतन्तु दशाङ्गुलम् ॥७४ केशवादि नमोऽन्तैश्च प्रणवाद्यैरनुक्रमात् । ललाटे केशवं रूपं कुक्षौ नारायणं न्यसेत् ॥७५ वक्ष स्थले माधवञ्च गोविन्दं कण्ठदेशतः । विष्णुभ्य दक्षिणे पार्श्वे वाह्वोश्च मधुसूदनम् ॥७६ त्रिविक्रम तु वामांसे वामनं वामपार्श्वतः । श्रीधरं वामवाहौ तु हृषीकेशं तदा भुजे ॥७७ पृष्ठे च पद्मनाभन्तु प्रोवे दामोदरं तदा । तत्प्रक्षालनतोयेन वासुदेवेति मूर्धनि ॥७८ द्वितीयो
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy