SearchBrowseAboutContactDonate
Page Preview
Page 461
Loading...
Download File
Download File
Page Text
________________ 1000 वृद्धहारीतस्मृतिः । जात पुत्रे पिता स्नात्वा होमं कृत्वा विधानतः । तेनामिनैव सन्तप्रचक्रेण भुजमूलयोः ॥२५ अङ्कयित्वा शिशोः पश्चान्नाम कुर्याच्च वैष्णवम् । पश्चात्सर्वाणि कर्माणि कुर्वीतास्य विधानतः ॥ २६ अङ्कयित्वा स (न) चक्रेण यत्किञ्चित्कर्म सञ्चरेत् । तत्सर्वं याति वैकल्यमिटापूर्तादिकं नृप ! ॥२७ कारयेन्मन्त्रदीक्षायां चक्राद्याः पञ्च हेतयः । चक्रं वै कर्मसिध्यर्थं जातकर्मणि धारयेत् ॥२८ अचक्रधारी विप्रस्तु सर्वकर्मसु गर्हितः । अवैष्णवः समापन्नो नरकं चाधिगच्छति ॥२६ चक्रादिचिह्नरहितं प्राकृतं कलुषान्वितम् । अवैष्णवस्तु तं दूरात् श्वपाकमिव सन्त्यजेत् ॥३० अवैष्णवस्तु यो विप्रः श्वपाकादधमः स्मृतः । अश्राद्ध यो ह्यपाङ्क्तेयो रौरवं नरकं ब्रजेत् ॥ ३१ अवैष्णवस्तु यो विप्रः सर्वधर्मयुतोऽपिवा । [ द्विवीयो गवां (स पाषण्डेति) षण्डति विज्ञेयः सर्वकर्मसु नार्हति ॥ ३२ तस्माचक्रं विधानेन तप्त वै धारयेद्विजः । सर्वाश्रमेषु वसतां स्त्रीणां च श्रुतिचोदनात् ||३३ अनायुधासो असुरा अदेवा इति वै श्रुतिः । चक्रेण तामपवप इत्यचा समुदाहृतम् ||३४ अपेत्थमकमित्युक्तं वपेति श्रवणं तदा । तस्माद्वै तप्तचक्रस्य चाङ्कनं मुनिभिः श्रुतम् । पवित्रं विततं ब्राह्मं प्रभोर्गात्रे तु धारितम् ||३५
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy