SearchBrowseAboutContactDonate
Page Preview
Page 452
Loading...
Download File
Download File
Page Text
________________ ऽध्दायः] सन्न्यासाश्रमधर्मवर्णनम् । १६१ सर्वव्यञ्जनसंयुक्तं पृथक् पात्रे नियोजयेत् । सूर्यादिभूतदेवेभ्यो दत्वा संप्रोक्ष्य वारिणा ।।१५ भुञ्जीत पात्रपुटके पात्रे वावभ्यतो यतिः । वटकाश्वत्थपणेषु कुम्भीतन्दुकपात्रके ॥१६ कोविदारकदम्बेषु न भुञ्जीयात् कदाचन । मलाक्ताः सर्व उच्यन्ते यतयः कांस्यभोजिनः ॥१७ कात्यभाण्डेषु यत् पाको गृहस्थत्य तथैव च । कांस्ये भोजयतः सर्व किल्विषं प्राप्नुयात्तयोः ॥१८ भुक्त्वा पात्रे यतिनित्यं क्षालयेन्मन्त्रपूर्वकम् । न दूष्यते च तत्पात्रं यज्ञेषु चमसा इव ॥१६ अथाचम्य निदिध्यास्य उपतिष्ठेत भास्करम् । जपध्यानेतिहासैश्च दिनशेषं नयेद्बुध ॥२० कृतसम्ध्यस्ततो रात्रिं नयेद्देवगृहादिषु । हृत्पुण्डरीकनिलये ध्यायेदात्मानमव्ययम् ॥२१ यदि धर्मरतिः शान्तः सर्वभूतसमो वशी। प्राप्नोति परमं स्थानं यत्प्राप्य न निवर्तते ॥२२ त्रिदण्डभृयोहि पृथक् समाचरेन्छनैः शनैर्यस्तु वहिर्मुखाधः । संमुच्य संसारसमस्तबन्धनात् स याति विष्णोरमृतात्मनः पदम् ॥२३ इति हारीते धर्मशास्त्रे षष्ठोऽध्यायः । -
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy