________________
७८
काशतिः।
वृहत्पराशरस्मृतिः। सप्तमोयदैव स्युः प्रवासस्था भार्या यत्र न सन्निधौ । व्यवधानेन भाया ग्रहणे पुत्रजन्मनि । कुर्यादामाशनश्राद्धमिति पाराशरोऽब्रवीत् ।।७२ अग्नौकरणपिण्डांश्च कुर्यादामाशनेन तु । सतिलैर्दधिमध्वाज्यसम्पृक्तैः सकुशैरपि ।।७३ यवाद्यं संस्कृतान्नेन द्रव्यं वापि च निर्वपेत् । जलेन पयसा वापि न स्यादश्राद्धकृयथा ।।७४ आमान्नेन द्विजैः कायं न कदाचिदपि द्विजाः । श्रपयित्वा द्विजौकस्सु तथापि पाकमाश्रयेत् ।।७४ न कुर्यात्परपाकेन नैकपाकेन तु द्वयम् । नैकश्राद्ध द्वयं कुर्यान्न च कुर्यात्परान्नभुक् ।।७५ पित्रादीनां सगोत्रा ये तथा मातामहस्य च । तेषामेकेन पाकेन कार्य पिण्डविवर्जितम् ॥७६ केचित्सापिण्ड्यमिच्छन्ति समगोत्रतयाऽनघ । अपि मातामहो न स्याद्भिन्नगोत्रतया तथा ।।७७ पृथक्कर्तुमशक्यं स्यादर्थ-पात्राधसम्भवे । अवश्यं तत्र कर्तव्यमेकदैवमतः श्रयेत् ॥७८ येषां नोद्वाहसंस्कारा ह्यन्यसंस्कार संस्कृताः । साङ्कल्पिकं भवेत्तेषां श्राद्ध कार्य मृतेऽहनि ॥७६ केचित्सापिण्ड्यमिच्छन्ति ब्रह्मसंस्कारवत्तया । आद्यो हि ब्रह्मसंस्कारस्तस्मात्पिण्डः प्रदीयते ॥८०