SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ कृषिमहत्वधर्मवर्णनम् | सर्वस्य बीजमापो हि सर्वमद्भिः समावृतम् । सद्य आप्यायना ह्याप आपो ज्येष्ठतरा ह्यतः ॥ ११५ किञ्चित्कालं विनाऽन्नाद्य जीवन्ति मनुजादयः । न जीवन्ति विना ताभिस्तस्मादापोऽमृतंस्मृताः ||११६ दत्ताभिरद्भिरेतस्यां किं न दत्तं कलौ युगे । यथानेन प्रदत्तेन सर्वं दत्तं भवेदिह ॥ ११७ अतोऽप्यनार्थ भावेन कर्तव्यं कर्षणं द्विजैः । यथोक्तेन विधादेन लाङ्गलादि प्रयोजनम् ॥ ११८ सीते सौम्ये कुमारित्वं देवि देवार्चिते श्रिये । शक्तिसूनोर्यथा सिद्धा तथा मे सिद्धिदा भव ॥ ११६ शक्तिसूनोविना नाम्ना सीतायाः स्थापनं विना । विनाऽभ्युक्षणरक्षार्थं सर्वं हरति राक्षसः ॥ १२० वापने लवने क्षेत्रे खले गन्त्रीप्रवाहणे । एष एव विधिर्ज्ञेयो धान्यानां च प्रवेशने ॥१२१ देवतायतनोद्यान- निपातस्थान - गोत्रजान् । सीमा - श्मशान भूमिं च वृक्षच्छायां क्षितिं तथा ।। १२२ भूमिं निखातं यूपांश्च अयनस्थानमेव च । अन्यामपि हि चावायां न कृत्कृषिकृद्धराम् ॥ १२३ नोषरां वाहयेद्भूमीं न चाश्म शर्करावृताम् । न गोचरां न प्रदत्तां न नदीपुलिनां तथा ॥ १२४ यद्यसौ वाहयेल्लोभाद्वेषाद्वापि हि मानवः । क्षीयतेऽसौ चिरात्पापात् सपुत्र-पशु- बान्धवः ।।१२५ ऽध्यायः ] ७४७
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy