SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ ऽध्यायः] समहत्ववृषभपूजनबर्णनम् उत्पाद्य सस्यानि तृणं चरन्ति तदेव भूयः सततं वहन्ति । न भारखिन्नाः प्रवदन्ति किंचिदहो वृषेर्जीवति जीवलोकः ॥५४ तृतीयेऽब्दे चतुर्थे वा यदा वत्सो दृढो भवेत् । तदा नासाऽस्य भेत्तब्या नैव प्राग, दुर्बलस्य च ॥५५ नासावेधनकीलं तु खादिरं वाथ जशपम् । द्वादशाङ्गुलकं कार्य तज्ज्ञैस्तैश्च समं च वा ।।५६ शालां द्विजेन्द्रा वृष-गो-हयानां तो याम्यदिग्द्वारवती विदध्यात् । सौम्याककुब्दारवती सुशोभा तेषां शमिच्छन् ध्रुवमात्मनश्च ।।५७ गावो वृषा वा हय-हस्तिनो वा अन्येऽपि सर्वे पशवो द्विजेन्द्राः । याम्यामुखा बोत्तरदिङ्मुखा वा नान्याशकास्ते खलु बन्धनीयाः ॥५८ शालाप्रवेशे वृष-गो-पशूनां राजा ऽपि यत्नाद्धय-कुञ्जराणाम् । होमं च सप्ताचिंषि शास्त्रयुक्तं कुर्याद्विधिज्ञो द्विजपूजनं च ॥५६ इति समहत्ववृषभपूजनवर्णनम् । अथ हल (वेध ) करण वर्णनम् । लागलं सम्प्रवक्ष्यामि यत्काष्ठं यत्प्रमाणतः । हलेषायास्तथोन्मानं प्रतोदस्य युगस्य च ॥६०
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy