SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ ऽध्यायः] वर्णाश्रमधर्मवर्णनम् । द्वापरे रुधिरं यावत्कलौत्वन्नाद्यमेव च। कृते तात्क्षणिकः शापत्रेतायां दशभिर्दिनैः ॥२६ मासेन द्वापरे ज्ञेयः कलौ सम्वत्सरेण तु । युगे युगेषु ये धर्मास्तेषु धर्मेषु ये द्विजाः ॥३० ते द्विजा नावमन्तव्या युगरूपा द्विजोत्तमाः। धर्मश्च सत्वमायुश्च तुऱ्या शेन कलौ युगे ॥३१ अदनात्तदनन्यस्य तुच्छमायुरकार्य्यतः । धर्मश्च लोकदम्भाथं पाषण्डार्थं तपस्विनः ।।३२ विविधा वाग्वञ्चनार्थ कलौ सत्यानुसारिणी । अल्पक्षीर-घृता गावो बल्पसस्या च मेदिनी ॥३३ स्त्रीजनन्यः स्त्रियः सर्वा रत्यर्थं कृतमैथुनाः। पुरुषाश्च बिताः स्त्रीभी राजानो दस्युभिर्जिताः ॥३४ जितो धर्मश्च पापेन अनृतेन तथा मृतम् । शूद्राश्च ब्रामणाचाराः शूद्राचारास्तथा द्विजाः ॥३५ अन्त्यानुयाघिनश्चाढ्या वर्णास्तदुपजीविनः । कतन्तु ब्राह्मणयुगं घेता तु क्षत्रियं युगम् ॥३६ वैश्यं तु द्वापरयुगं कलिः शूद्रयुगं स्मृतम् । चातुर्वणिकनारीणां तथा तुरीयजन्मनी ॥३७ यति(पति)द्विजा(त्युपास्त्यापि)भ्युपास्त्यादिधर्मद्धिमहतीकलौ। शतेन या कृते दत्ते फलाप्तिः पुरुषस्य सा ॥३८ दत्तेषु दशभिर्नृणां फलाप्तिः स्यात् कलौ युगे । कृते यत् कोटिदस्य स्यात् त्रेतायां लक्षदस्य तत् ॥३६
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy