SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ ऽध्यायः] ब्राह्मणमहत्व वर्णनम् । ६४६ शूद्राणां नोपवासः स्याच्छुद्रो दानेन शुध्यति । ब्राह्मणांस्तु नमस्कृत्य पञ्चगव्येन शुध्यति ।।४८ अच्छिद्रमिति यद्वाक्यं वदन्ति क्षितिदेवताः । प्रणम्य शिरसा धार्य मनिष्टोमफलं हि तत् ।।४६ व्याविव्यसनिनि श्रान्ते दुर्भिक्षे डामरे तथा । उपवासो व्रतो होमो द्विजसम्पादितानि वा ॥५० अथवा ब्राह्मणास्तुष्टाः स्वयं कुर्वन्त्यनुग्रहम् । सर्वधर्ममवाप्नोति द्विजैः सम्बद्धिताशिषा ॥५१ दुर्बलेऽनुग्रहः कार्य्यस्तथा वै बालवृद्धयोः । अतोऽन्यथा भवेदोषस्तस्मानानुग्रहः स्मृतः ।।५२ स्नेहाद्वा यदि वा लोभाद्भयादज्ञानतोऽपि वा। कुर्वन्त्यनुप्रहं ये वै तत्पापं तेषु गच्छति ॥५३ शरीरस्यात्यये प्राप्ते वदन्ति नियमन्तु ये । महत्कार्योपरोधेन न स्वस्थस्य कदाचन ॥५४ स्वस्थस्य मूढाः कुर्वन्ति नियमन्तु वदन्ति ये । ते तस्य विघ्नकर्तारः पतन्ति नरकेऽशुचौ ॥५५ स एव नियमस्त्याज्यो ब्राह्मणं योऽवमन्यते । वृथा तस्योपवासः स्यान्न स पुग्येन युज्यते ॥५६ स एव नियमो ग्राह्यो यं यं कोऽपि वद्विजः । कुर्य्याद्वाक्यं द्विजानाञ्च अकुर्वन् ब्रह्महा भवेत् ।।५७ उपवासो व्रतञ्चैव स्नानं तीर्थं जपस्तपः । विप्रैः सम्पादितं यस्य सम्पन्नं तस्य तद्भवेत् ॥५८
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy