SearchBrowseAboutContactDonate
Page Preview
Page 695
Loading...
Download File
Download File
Page Text
________________ , शातातपस्मृतिः। पञ्चरोमृतवत्सोदितः सर्वोविधिरत्र विधीयते। दशांशहोमः कर्तव्यः पलाशेन यथाविधि ॥२६ देवस्य हरणाच्चैव जायते विविधो ज्वरः। स्वरोमहाज्वरश्चैव रौद्रो वैष्णव एव च ॥३० त्वरे रौद्रं जपेत् कर्णे महारुद्रं महावरे। अतिरौद्रं जपेद्रौद्रे वैष्णवे तवयं जपेत् ॥३१ नानाविधद्रव्यचौरो जायते ग्रहिणीयुतः । तेनानोदकवस्त्राणि हेम देयञ्च शक्तितः ॥३२ इति शातातपीये कर्मविपाके स्तेयप्रायश्चित्तं नाम • चतुर्थोऽ-यायः। -:००:॥ पञ्चमोऽध्यायः ॥ अथ अगम्यागमनप्रायश्चित्तम् । मातृगामी भवेद्यस्तु लिङ्गं तस्य विनश्यति । चाण्डालीगमने चैव हीनकोषः प्रजायते ॥१ तस्य प्रतिक्रियां कर्तुं कुम्भमुत्तरतोन्यसेत् । कृष्णवस्त्रसमाच्छन्न कृणमाल्यविभूषितम् ॥२ तस्योपरि न्यसेदेवं कांस्यपाने धनेश्वरम् । सुवर्णनिष्कषट्केन निर्मितं नरवाहनम् ॥३ यजेत् पुरुषसूक्तेन धनदं विश्वरूपिणम् । अथर्ववेदविविप्रो ह्याथवर्म समाचरेत् ॥४
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy