SearchBrowseAboutContactDonate
Page Preview
Page 671
Loading...
Download File
Download File
Page Text
________________ ५८८ दक्षस्मृतिः। [ सप्तमोऽतस्मात्त्यक्तकषायेण कर्त्तव्यं दण्डधारणम् । इतरतु न शक्नोति विषयैरभिभूयते ॥२८ न स्थिरं क्षणमप्येकमुदकं हि यथोर्मिभिः ! वाताहतं तथा चित्तं तस्मात्तस्य न विश्वसेत् ॥२६ त्रिदण्डव्यपदेशेन जीवन्ति वहवो नराः। योहि ब्रह्म न जानाति न त्रिदण्डाह एव सः ॥३० ब्रह्मचर्य सदा रक्षेदष्टधा मैथुनं पृथक् । स्मरणं कीर्तनं केलिः प्रेक्षणं गुह्यभाषणम् ॥३१ सङ्कल्पोऽध्यवसायश्च क्रियानिष्पत्तिरेव च । एतन्मथुनमष्टाङ्गं प्रवदन्ति मनीषिणः ॥३२ न ध्यातव्यं न वक्तव्यं न कर्त्तव्यं कदाचन । एतैः सर्वैः सुसम्पन्नो यतिर्भवति नेतरः ॥३३ पारिव्रज्यं गृहीत्वा च योधर्मे नावतिष्ठते । श्रपदेनाङ्कयित्वा तं राजा शीघ्र प्रवासयेत् ॥३४ एकोभिक्षुर्यथोक्तस्तु द्वौ चैव मिथुनं स्मृतम् । त्रयो ग्रामस्तथा ख्यात ऊर्द्धन्तु नगरायते ॥३५ नगरं हि म कर्त्तव्यं ग्रामोवा मिथुनं तथा । एतत्त्रयं प्रकुर्वाणः स्वधर्माच्च्यवते यतिः॥३६ राजवार्तादि तेषान्तु भिक्षावार्ता परस्परम । स्नेहपैशून्यमात्सर्या सन्निकर्षादसंशयम् ॥३७ लाभपूजानिमित्तं हि व्याख्यानं शिष्यसंग्रहः । एते चान्ये च बहवः प्रपञ्चाः कुतपस्विनाम् ॥३८
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy