________________
विष्णुस्मृतिः। [षणनवतिगुदमुदरं गुदकोष्ठम् । कनीनिके अक्षिकूटे शष्कुलीकौँ कर्णपत्रको गण्डौ भ्रवौ शङ्खको दन्तवेटावोष्ठौककुन्दरे वंक्षणौ वृषणौ वुक्को श्लेष्मसङ्घातको स्तनौउपजिह्वा स्फिचौ बाहू जो ऊरूपिण्डिके तालदरंवस्तिशीर्षों चिवुकं गलगुण्डिके अवटश्चेत्यस्मिन् शरीरके स्थानानि । शब्दस्पर्शरसरूपगन्धाश्च विषया। नासिकालोचनत्वग्जिह्वाश्रोत्रमिति बुद्धिन्द्रियाणि । हस्तौपादौ पायूपस्थं जिह्वति कर्मेन्द्रियाणि । मनोबुद्धिरात्मा चाब्यक्तमितीन्द्रियातीताः॥ इदं शरीरं वसुधे ! क्षेत्र मित्यभिधीयते । एतद्यो वेत्ति तं प्राहुः क्षेत्रमिति तद्विदः ।। क्षेत्रज्ञमेव मां विद्धि सर्वक्षत्रेषु भाविनि !। क्षेत्रं क्षेत्रज्ञविज्ञानं ज्ञेयं नित्यं मुमुक्षुणा ।। इति वैष्णवे धर्मशास्त्रे षणनवतितमोऽध्यायः ।।
॥ अथ सप्तनवतितमोऽध्यायः ॥ ऊरुस्भोत्तानचरणः सव्ये करे करमितरं न्यस्य तालुस्थाचलजिह्वोदन्तैर्द तानसंस्पृशन् स्वनासिकाग्रं पश्यन् दिशश्वानवलोकयन् विभीः प्रशान्तात्मा चतुर्विंशत्या तत्त्वैर्व्यतीतं चिन्तयेत् ।