________________
५२८
विष्णुस्मृतिः। . [ सप्ताशीति॥ अथ सप्ताशीतितमोऽध्यायः॥ अथ वैशाख्यां पौर्णमास्यां कृष्णमृगाजिनं सुवर्णशृङ्गरौप्यखुरं मौक्तिकलाङ्ग लभूषितं कृत्वा आविके वस्त्रे च प्रसारयेत। ततस्तिलैः प्रच्छादयेत् । सुवर्णनाभिश्चकुर्य्यात्। आहतेन वासोयुगेन प्रच्छादयेत् । सर्वगन्धरत्नचालकृतं कुर्य्यात् । चतसृषु दिक्षु चत्वारि तैजसपात्राणि क्षीरदधिमधुघृतपूर्णानि निधायाहिताग्नये ब्राह्मणायालङ्कृतायावासोयुगेन प्रच्छादिताय दद्यात् । अत्र च गाथा भवन्ति ।। यस्तु कृष्णाजिनं दद्यात् सखुरं शृङ्गसंयुतम् । तिलैः प्रच्छाद्य वासोभिः सर्वरत्नरलङ्कृतम् ।। ससमुद्रगुहा तेन सशैलवनकानना। चतुरन्ता भवेदत्ता पृथिवी नात्र संशयः॥ कृष्णाजिने तिलान् कृत्वा हिरण्यं मधुसर्पिषी। ददाति यस्तु विप्राय सर्व तरति दुष्कृतम् ॥ इति वैष्णवे धर्मशास्त्रे सप्ताशीतितमोऽध्यायः॥
-:००: