________________
४७१
॥ अथ द्विचत्वारिंशत्तमोऽध्यायः॥
यदनुक्तं तत्प्रकीर्णकम् । प्रकीर्णपातके ज्ञात्वा गुरुत्वमथ लाघवम् । प्रायश्चित्तं बुधः कुर्याद् ब्राह्मगानुमतः सदा ॥ इति वैष्णवे धर्मशास्त्रे द्विचत्वारिंशत्तमोऽध्यायः ।।
॥ अथ त्रिचत्वारिंशत्तमोऽध्यायः ॥ अथ नरकाः। तामिस्रम् । अन्धतामिस्रम् । रौरवम् । महारौरवम् । कालसूत्रम्। महानरकम्। संजीवनम् । अवीचि । तापनम्। सम्प्रतापनम्। संघातकम् । काकोलम्। कण्डूलम् । कुटानम्। पूतिमृत्तिकम् । लोहशङ्खः। मृचीसम् । विषमपन्थानम् । कण्टकशाल्मलिः। दोपनदी। असिपत्रवनम् । लोहचारकमिति । एतेष्वकृतप्रायश्चित्ता अतिपातकिनः पर्यायेण कल्पं पच्यन्ते । महापातकिनो मन्वन्तरम् । अनुपातकिनश्चातुर्युगम् । कृतसङ्करीकरणाश्च सम्वत्सरसहस्रम् । कृतजातिभ्रंशकरणाश्च। कृतापात्रीकरणाश्च । कृतमलिनीकरणाश्च । प्रकीर्णकपातकिनश्च बहून वर्षयुगान् । कृतपातकिनः सर्वे प्राणत्यागादनन्तरम् । याम्यं पन्थानमासाद्य दुःखमश्नन्ति दारुणम् ॥