________________
॥ अथ पञ्चविंशोऽध्यायः ॥
अथ स्त्रीणां धर्म्माः ।
भर्तुः समानव्रतचारित्वम् । श्वश्रुश्वशुरगुरुदेवतातिथिपूजनम् । सुसंस्कृतोपस्करता ।
४५५
अमुक्तहस्तता । सुगुप्तभाण्डता । मूलक्रियास्वनभिरतिः । मङ्गलाचारतत्परता । भर्त्तरि प्रवासितेऽप्रतिकर्म्मक्रिया । परगृहेष्वनभिगमनम् । द्वारदेशगवाक्षकेषु नावस्थानम् । सर्व्वकर्म्मस्वस्वतन्त्रता । बाल्ययौवनवार्द्धकेष्वपि पितृभर्तृपुत्राधीनता ।
मृते भतरि ब्रह्मचय्र्यं तदन्वारोहणं वा । नास्ति स्त्रीणां पृथक्यज्ञो न व्रतं नाप्युपोषणम् । पतिं शुश्रूषते यत्तु तेन स्वर्गे महीयते ॥ पत्यौ जीवति या योषिदुपवासव्रतञ्चरेत् । आयुः सा हरते भर्तुर्नरकञ्चैव गच्छति ॥ मृते भर्त्तरि साध्वी स्त्री ब्रह्मचर्ये व्यवस्थिता । स्वर्गच्छत्यपुत्रापि यथा ते ब्रह्मचारिणः ॥
इति वैष्णवे धर्मशास्त्रे पञ्चविंशोऽध्यायः ॥ .