SearchBrowseAboutContactDonate
Page Preview
Page 520
Loading...
Download File
Download File
Page Text
________________ अष्टादशोऽध्यायः। ४३७ स्यातां तदा तद्धनं त्रिधा विभजेयातां द्वावंशौ वैश्यस्त्वा दद्यादेकं शूद्रः। अथैक पुत्रा ब्राह्मणस्य ब्राह्मणक्षत्रियवैश्याः सर्वहराः। क्षत्रियस्य राजन्यवैश्यौ। वैश्यस्य वैश्याः। शूद्रः शूद्रस्य । द्विजातीनां शूद्ररत्वेकः पुत्रोऽर्द्धहरः । अपुत्रमृक्थस्य या गतिः सात्रार्द्धस्य द्वितीयस्य । मातरः पुत्रभागानुसारेण भागहारिण्यः । अनूढाश्च दुहितरः। समवर्णाः पुत्राः समानंशानादधुः । ज्येष्ठाय श्रेष्ठमुद्रारं दधुः। यदि द्वौ ब्राह्मणीपुत्रौ स्यातामेकः शूद्रापुत्र स्तदा ब्राह्मणपुत्रावष्टौ भागानादद्यातामेकं शूद्रापुत्रः । अथ शूद्रापुत्रावुभौ स्यातामेकोब्राह्मणीपुत्रस्तदा षड्विभक्तस्यार्थस्य चतुरोऽशान् ब्राह्मणस्त्वादद्यावावंशौ शूद्रापुत्रौ । अनेन क्रमेणान्यत्राप्यंशकल्पना भवति । विभक्ताः सहजीवन्तो विभजेरन् पुनर्यदि । समन्तत्र विभागः स्याज्ज्येष्ठं तत्र न विद्यते ।। अनुपघ्नन् पितृद्रव्यं श्रमेण यदुपार्जितम् । स्वयमीहितलब्धतन्नाकामो दातुमर्हति ।। पैतृकन्तु यदा द्रव्यमनवाप्य यदाप्नुयात् । न तत् पुत्रर्भजत सार्द्ध मकामः स्वयमर्जितम् ।। वस्त्रं पत्रमलङ्कारः कृतान्नमुदकं स्त्रियः । योगक्षेमं प्रचारञ्च न विभाज्यञ्च पुस्तकम् ।। इति वैष्णवे धर्मशास्त्रेऽष्टादशोऽध्यायः॥
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy