SearchBrowseAboutContactDonate
Page Preview
Page 518
Loading...
Download File
Download File
Page Text
________________ सप्तदशोऽध्यायः। ४३५ पितृविभक्ताविभागानन्तरोत्पन्नस्य भागं दधुः। अपुत्रस्य धनं पन्यभिगामि । तदभावे दुहितगामि । तदभावे पितृगामि। तदभावे मातृगामि । तदभावे भ्रातृगामि। तदभावे भ्रातृपुत्रगामि । तदभावे बन्धुगामि । तदभावे सकुल्यगामि । तदभावे सहाध्यायिगामि। तदभावे ब्राह्मणधनवज राजगामि । ब्राह्मणार्थो ब्राह्मणानाम् । वानप्रस्थधनमाचार्योगृह्णीयात् शिष्योवा । संसृष्टिनस्तु संसृष्टी सोदरस्य तु सोदरः । दद्यादपहरेच्चांशं जातस्य च मृतस्य च ।। पितृमातृसुतभ्रातृदत्तमध्यग्न्युपागतम् ।। आधिवेदनिकं बन्धुदत्तं शुल्कमन्वाधेयकमिति स्त्रीधनम् । ब्राह्मादिषु चतुर्षु विवाहेष्वप्रजायामतीतायां तद्भर्तुः । शेषेषु च पिता हरेत् । सर्वेष्वेव प्रसूतायां यदनं तदुहितगामि । पत्यौ जीवति यः स्त्रीभिरलङ्कारो धृतो भवेत् । न तं भजेरन् दायादा भजमानाः पतन्ति ते ॥ अनेकपितृकाणाञ्च पितृतो भागकल्पना । यस्य यत् पैतृकं रिक्थं स तद्गृहीत नेतरः ।। इति वैष्णवे धर्मशास्त्र सप्तदशोऽध्यायः ।।
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy