SearchBrowseAboutContactDonate
Page Preview
Page 465
Loading...
Download File
Download File
Page Text
________________ अत्रिसंहिता ग्रहणोद्वाहसंक्रान्तौ स्त्रीणाञ्च प्रसवे तथा। . दानं नैमित्तिकं ज्ञेयं रात्रौ चापि प्रशस्यते ॥३२५ क्षौमजं वाऽथ कांसं पट्टसूत्रमथापि वा। यज्ञोपवीतं यो दद्याद्वस्त्रदानफलं लभेत् ॥३२६ कांस्यस्य भाजनं दद्याघृतपूर्ण सुशोभनम् । तथा भक्त्या विधानेन अग्निष्टीमफलं लभेत् ॥३२७ श्राद्धकाले तु यो दद्याच्छोभनौ (ने) च उपानहौ । स गच्छत्यन्यमार्गेऽपि अश्वदानफलं लभेत् ॥३२८ तिलपात्रं तु यो दद्यात् संपूर्ण तु समाहितः । स गच्छति ध्रुवं स्वर्गे नरो नास्त्यत्र संशयः ॥३२६ दुर्भिक्षे अन्नदाता च सुभिक्षे च हिरण्यदः । पानीयदस्स्वरण्ये च स्वर्गलोके महीयते ॥३३० यावदर्धप्रसूता गौस्तावत् सा पृथिवी स्मृता । पृथिवीं तेन दत्ता स्यादीदृशीं गान्ददाति यः॥३३१ तेनाग्नयो हुताः सम्यक् पितरस्तेन तर्पिताः । देवाश्च पूजिताः सर्वे यो ददाति गवाहिकम् ॥३३२ जन्मप्रभृति यत्पापं मातृकं पैतृकं तथा । तत्सर्व नश्यति क्षिप्रं वस्त्रदानान्न संशयः ॥३३३ कृष्णाजिनश्च यो दद्यात् सर्वोपस्करसंयुतम् । उद्धरेन्नरकस्थानात् कुलान्येकोत्तरं शतम् ।।३३४ आदित्यो वरुणो विष्णुर्ब्रह्मा सोमो हुताशनः । शूलपाणिरतु भगवानभिनन्दन्ति भूमिदम् ।।३३५
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy