SearchBrowseAboutContactDonate
Page Preview
Page 463
Loading...
Download File
Download File
Page Text
________________ अत्रिसंहिता । स्वसुता अप्रजा तानाश्नीयाचद्गृहे पिता । अनं भुक्के तु यो मोहात्पूयं स नरकं ब्रजेत् ॥३०२ अधीत्य चतुरो वेदान् सर्वशास्त्रार्थत सुवित् । नरेन्द्रभवने भुक्ता विष्ठायां जायते कृमिः ॥ ३०३ नवश्राद्ध त्रिपक्षे च षण्मासे मासिकेऽब्दिके । पतन्ति पितरस्तस्य यो भुङ्क्तेऽनापदि द्विजः ॥ ३०४ चान्द्रायणं नवश्राद्धं पराको मासिके तथा । त्रिपक्षे चैव कृच्छ्रः स्यात् षण्मासे कृष्टमेव च । आन्दिके पादकृच्छः स्यादेकाहः पुनराब्दिके ॥ ३०५ ब्रह्मचर्यमनाधाय मासश्राद्धषु पर्वसु । द्वादशाहे त्रिपक्षेऽब्दे यस्तु भुक्ते द्विजोत्तमः ॥ ३०६ पतन्ति पितरस्तस्य ब्रह्मलोके गता अपि ॥३०७ एकादशाहेऽहोरात्रं भुक्त्वा संचयमे व्यहम् | उपोष्य विधिवद्विप्रः कुष्माण्डी जुहुयाद्धृतम् ॥ ३०८ पक्षे वा यदि वा मासे यस्य नाश्नन्ति वै द्विजाः । भुक्त्वा दुरात्मनस्तस्य द्विजश्वान्द्रायणं चरेत् ॥ ३०६ यन्न वेदध्वनि (श्रान्तं ) ध्वान्तं न च गोभिरलङ्कृतम् । यन्न बालैः परिवृतं श्मशानमिव तद्गृहम् ॥३१० हास्येsपि बहवो यत्र विनाधर्मं वदन्ति हि (न) । विनाऽपि धर्मशास्त्रेण स धर्मः पावनः स्मृतः ।।३११ हीनवर्णे च यः कुर्यादज्ञानादभिवादनम् । तत्र स्नानं प्रकुर्वीत घृतं प्राश्य विशुद्धयति ॥३१२
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy