SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ पञ्चमोऽध्यायः । ३४५ वैश्यस्य चान्नमेवान्नं शूद्रानं रुधिरं स्मृतम् । शूद्रान्नेनोदरस्थेन योऽधिगच्छति मैथुनम् ॥११ यस्यान्न तस्यते पुत्रा अन्नाच्च्छुक्र प्रवर्त्तते । शूद्रान्नरसपुष्टाङ्गोऽधीयानोऽपि च नित्यशः ।।१२ जुत् चापि जपन्वापि गतिमूर्द्धान्न विन्दति । यस्तु वेदमधीयानः शूद्रान्नमुपभुञ्जते ॥१३ शूद्रो वेदफलं याति शूद्रत्वं चाधिगच्छति । मृतसूतकपुष्टाङ्गो द्विजः शूद्रान्नभो(जीच)जनम् ।।१४ अहमेवं न जानामि काङ्कां योनिङ्गमिष्यति । श्वानस्तु सप्तजन्मानि नवजन्मानि शूकरः॥१५ गृध्रो द्वादश(अष्टादश)जन्मानि इत्येवं मनुरब्रवीत् । परपाक मुपासन्ते ये द्विजा गृहमेधिनः ॥१६ ते वै खरत्वमुष्ट्रत्वं श्वत्वञ्चैवाऽधिगच्छति । श्राद्धं दत्वा च भुक्ता च मैथुनं योऽधिगच्छति ॥१७ भवन्ति पितरस्तस्य तन्मासे रेतसोभुजः । उच्छिष्टे न तु संस्पृष्टो द्रव्यहस्तः कथञ्चन ॥१८ भूमौ निधाय तद्दव्यमाचान्तः शुचितामियात्। स्पृशन्ति विन्दवः पादौ य आचामयतः परान् ।।१६ भूमिगैस्ते समाज्ञेया न तैरप्रयतो भवेत् । आचान्तोऽप्यशुचिस्तावद्यावत्पात्रमनुद्र तम् ॥२० उद्धतेप्यशुचिस्तावद्यावन्मण्डलशोधनम् । आसने पादमारोप्य ब्राह्मणो यस्तु भुञ्जते ॥२१
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy