________________
नारदीयमनुस्मृतिः। स्थातां संव्यवहार्यौ तौ धृतदण्डौ तु पूर्वयोः । धृतदण्डोऽप्यसंमोज्यो शेय उत्तमसाहसे ।।१०. तस्यैव भेदः स्तेयं तु विशेषस्तत्र चोच्यते। आधेः साहसमाक्रम्य स्तेयमाधिच्छलेन तु॥११ तदपि त्रिविधं प्रोक्तं द्रव्यापेक्षं महर्षिभिः। क्षुद्रमध्योत्तमानां तु द्रव्याणामपकर्षणात् ॥१२ मृद्भाण्डासनखट्वा स्थिदारुचर्मतृणादि यत् । फलं चान्यकृतान्नं च क्षुद्रद्रव्यमुदाहृतम् ॥१३ वासः कौशेयवर्ज यद् गोवर्ज पशवस्तथा। हिरण्यवर्ज लोहं च मध्यं व्रीहियवा अपि ॥१४ हिरण्यरनकौशेयस्त्रीपुङ्गोगजवाजिनाम् । देवब्राह्मणराज्ञां च द्रव्यं विज्ञोयमुत्तमम् ।।१५ उपायैर्विविधैरेषां छलयित्वापकर्षणम् । सुप्तमत्तप्रमत्तेभ्यः स्तेयमाहुर्मनीषिणः ॥१६ . सहोढप्रहणात् स्तेयं होढेऽसत्यतिभोगतः। शङ्कात्वसज्जनैकार्थ्यादनायव्ययतस्तथा ॥१७ ।। भक्तावकाशदातारः स्तेनानां ये प्रसर्पताम् । शक्तौ च य उपेक्षन्ते तेऽपि तद्दोषभागिनः ॥१८ उत्क्रोशतां जनानां च ह्रियमाणे धनेऽपि च । श्रुत्वा ये नाभिधावन्ति तेऽपि तद्दोषभागिनः॥१६ साहसेषु य एवोक्तस्त्रिषु दण्डो मनीषिभिः । स एव दण्डः स्तेयेऽपि द्रव्येषु त्रिष्वनुक्रमात् ॥२०