SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ ३११ दायविभागस्त्रयोदशं विवादपदम् । परिक्षीणे पतिकुले निर्मनुष्ये निराश्रये। तत्सपिण्डेषु चासत्सु पितृपक्षः प्रभुः स्त्रियाः ॥२८ पक्षद्वयावसाने तु राजा भर्ता स्मृतः स्त्रियाः । स तस्या भरणं कुर्यान्निगृह्णीयात् पथश्च्युताम् ॥२६ स्वातन्त्र्याद् विप्रणश्यन्ति कुले जाता अपि त्रियः । अस्वातन्त्र्यमतस्तासां प्रजापतिरकल्पयत् ॥३० पिता रक्षति कौमारे भर्ता रक्षति यौवने । रक्षन्ति वार्द्ध के पुत्रा न स्त्री स्वातन्त्र्यमहति ॥३१ यच्छिष्टं पिदायेभ्यो दत्त्वर्ण पैतृकं च यत् । भ्रातृभिस्तद् विभक्तव्यमृणी न स्यात् पिता यथा ॥३२ येषां च न कृताः पित्रा संस्कारविधयः क्रमात् । कर्तव्या भ्रातृभिस्तेषां पैतृकादेव तद्धनात् ॥३३ अविद्यमाने पित्रर्थे स्वांशादुद्धृत्य वा पुनः। अवश्यकार्याः संस्कारा भ्रातृणां पूर्वसंस्कृतैः ॥३४ कुटुम्बार्थेषु चोयुक्तस्तत्कायं कुरुते च यः । स भ्रातृभिबृहणीयो ग्रासाच्छादनभोजनैः ॥३५ विभागधर्मसन्देहे दायादानां विनिर्णये । ज्ञातिभिर्भागलेख्यैस्तु पृथक् का (यं ? या) प्रकल्पना ॥३६ भ्रातणामविभक्तानामेको धर्मः प्रवर्तते । विभागे सति धर्मोऽपि भवेदेषां पृथक् पृथक् ॥३७ दानग्रहणपश्वनगृहक्षेत्रपरिग्रहाः।। विभक्तानां पृथग् ज्ञेयाः पाकधर्मागमव्ययाः ॥३८
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy