SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ क्षेत्रविवाद एकादशं विवादपदम्। अशक्तप्रेतनष्टेषु क्षेत्रिकेष्वनिवारितः । विकध्यमाणे क्षेत्रे चेत् क्षेत्रिकः पुनराव्रजेत् ॥३८ बीजापचारं तत् सर्वं दत्त्वा स्वं क्षेत्रमाप्नुयात् । गुहं क्षेत्रं च विज्ञेयं वासहेतुः कुटुम्बिनाम् ॥३६ वृद्ध जनपदे राज्ञो धर्मः कोशश्च वर्धते । हीयते हीयमाने तु वृद्धिहेतुमतः श्रयेत् ॥४० इति क्षेत्रविवाद एकादशं विवादपदम् ।। अथ स्त्रीपुंसयोगो द्वादशं विवादपदम् । विवाहादिविधिः स्त्रीणां यत्र पुंसां च कीर्त्यते । स्त्रीपुंसयोगसंशं तु विवादपदमुच्यते ॥१ सीपुंसयोस्तु सम्बन्धाद् वरणं प्राग विधीयते । वरणाद् ग्रहणं पाणेः संस्कारोऽथ द्विलक्षणः ॥२ तयोरनियतं प्रोक्तं वरणं दोषदर्शनाद् । पाणिग्रहणमन्त्राभ्यां नियतं दारलक्षणम् ॥३ ब्राह्मणक्षत्रियविशां शूद्राणां च परिग्रहे । स्वजात्या श्रेयसी भार्या स्वजात्यश्च पतिः खियाः ॥४ ब्राह्मणस्यानुलोम्येन स्त्रियोऽन्यास्तित एव तु। शूद्रायाः प्रातिलोम्येन तथान्ये पतयस्त्रयः ॥५
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy