________________
२२२
मनुस्मृतिः।
[एकादशो यस्य कायगतं ब्रह्म मद्येनाप्लाव्यते सकृत् । तस्य व्यपैति ब्राह्मण्यं शूद्रत्वं च स गच्छति ॥६८ एषा विचित्राऽभिहिता सुरापानस्य निष्कृतिः । अत ऊवं प्रवक्ष्यामि सुवर्णस्तेयनिष्कृतिम् ।।६६ सुवर्णस्तेयकृद्विप्रो राजानमभिगम्य तु। स्वकर्म ख्यापयन्ब्रयान्मां भवाननुशास्त्विति ॥१०० गृहीत्वा मुसलं राजा सकृद्वन्यात्तु तं स्वयम् । वधेन शुध्यति स्तेनो ब्राह्मणस्तपसैव तु॥१०१ तपसाऽपनुनुत्सुस्तु सुवर्णस्तेयजं मलम् । चीरवासा द्विजोऽरण्ये चरेब्रह्महणोजतम् ।।१०२ एतैर्ऋतैरपोहेत पापं स्तेयकृतं द्विजः। गुरुस्त्रीगमनीयं तु ब्रतैरेभिरपानुदेत् ।।१०३ गुरुतल्यभिभाष्यैनस्तल्पे स्वप्यादयोमये। सूर्मी ज्वलन्तीं वाश्लिष्येन्मृत्युना स विशुद्धयति ॥१०४ स्वयं वा शिश्नवृषणावुत्कृयाधाय चाञ्जलौ । नैती दिशमातिष्ठेदानिपातादजिह्नगः ॥१०५ खदाङ्गी चीरवासा वा श्मश्रुलो विजने वने । प्राजापत्यं चरेत्कृच्छमब्दमेकं समाहितः ।।१०६ चान्द्रायणं वा त्रीन्मासानभ्यस्येन्नियतेन्द्रियः । हविष्येण यवाग्वा वा गुरुतल्पापनुत्तये ॥१०७ एतैर्ऋतैरपोहेयुर्महापातकिनो मलम् । उपपातकिनरत्वेवमेभिर्नानाविधैर्ऋतैः ॥१०८