SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ १७३ ऽध्यायः] स्त्रीधर्मपालनवर्णनम् । यादृशं तूप्यते बीजं क्षेत्रे कालोपपादिते । ताग्रोहति तत्तस्मिन्बीजं स्वैर्व्यञ्जितं गुणैः ॥३६ इयं भूमिहि भूतानां शाश्वती योनिरुच्यते । न च योनिगुणान्कांश्चिद्वीजं पुष्यति पुटिषु ॥३७ भूमावप्येककेदारे कालोप्तानि कृषीवलैः । नानारूपाणि जायन्ते बीजानीह स्वभावतः ॥३८ ब्रीहयः शालयो मुद्गास्तिला माषास्तथा यवाः । यथाबीजं प्ररोहन्ति लशुनानीक्षवस्त या॥३६ अन्यदुप्त जातमन्यदित्येतन्नोपपद्यते । उप्यते यद्धि यद्बीजं तत्तदेव प्ररोहति ॥४० तत्प्राज्ञेन विनीतेन ज्ञानविज्ञानवेदिना। आयुष्कामेन वप्तव्यं न जातु परयोषिति ॥४१ अत्र गाथा वायुगीताः कीर्तयन्ति पुराविदः । यथा बीजं न वाप्तव्यं पुंसा परपरिग्रहे ॥४२ नश्यतीषुर्यथा विद्धः खे विद्धमनुविध्यतः । तथा नश्यति वै क्षिप्रं बीजं परपरिग्रहे ।।४३ पृथोरपीमां पृथिवीं भार्या पूर्वविदो विदुः । स्थाणुच्छेदस्य केदारमाहुः शल्यवतो मृगम् ।।४४ एतावानेव पुरुषो यजायात्मा प्रजेति ह। विप्राः प्राहुस्तथा चैतद्यो भर्ता सा स्मृताङ्गना ॥४५ न निष्क्रयविसर्गाभ्यां भत्तुर्भार्या विमुच्यते । एवं धर्म विजानीमः प्राक्प्रजापतिनिर्मितम् ॥४६
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy