________________
ऽध्यायः] राजधर्मदग्डविधाने साक्षीवर्णनम् १४६
निक्षिप्तस्य धनस्यैवं प्रीत्योपनिहितस्य च । राजा विनियं कुर्यादक्षिण्वन्यासधारिणम् ॥१६६ विक्रोगोते परस्य स्वं योऽस्वामी स्वाम्यसम्मतः । न तं नयेत साक्ष्यं तु स्तेनमस्तेनमानिनम् ॥१६७ अवहार्यो भवेश्वैव सान्वयः षट्शतं दमम् । . निरन्वयोऽनपसरः प्राप्तः स्याचौर किल्विषम् ।।१६८ अस्वामिना कृतो यस्तु दायो विक्रय एव वा । अकृतः स तु विज्ञेयो व्यवहारे यथा स्थितिः ॥१६६ सम्भोगो दृश्यते यत्र न दृश्येतागमः कचित् । आगमः कारणं तत्र न सम्भोग इति स्थितिः ।।२०० विक्रयाद्यो धनं किंचिद्गृह्णीयात्कुलसन्निधौ । क्रयेण स विशुद्ध हि न्यायतो लभते धनम् ॥२०१ अथ मूलमनाहार्य प्रकाशक्रयशोधितः। अदण्ज्यो मुच्यते राज्ञा नाष्टिको लभते धनम् ।।२०२ नान्यदन्येन संसृष्टरूपं विक्रयमर्हति । न चासारं न च न्यूनं न दूरेण तिरोहितम् ।।२०३ अन्यां चेहर्शयित्वा-या वोढुः कन्या प्रदीयते । उभे त एकशुल्केन वहेदित्यनबीन्मनुः ।।२०४ नोन्मत्ताया न कुष्ठिन्या न च या स्पष्टमैथुना । पूर्व दोषानभिख्याप्य प्रदाता दण्डमहति ।।२०५ ऋत्विग्यदि वृतो यज्ञे स्वकर्म परिहापयेत् । तस्य कर्मानुरूपेण देयोंऽशः सह कर्तृभिः ।।२०६