________________
अध्यायः] संन्यासधर्मवर्णनम् ।। १०६
चतुर्भिरपि चैवैतैनित्यमाश्रमिभिर्द्विजैः । दशलक्षणको धर्मः सेवितव्यः प्रयत्नतः ।।६१ धृतिःक्षमा दमोऽस्तेयं शौचमिन्द्रियनिग्रहः। धीविद्या सत्यमक्रोधो दशकं धर्मलक्षणम् ॥६२ दश लक्षणानि धर्मस्य ये विप्राः समधीयते । अधीत्य चानुवर्तन्ते ते यान्ति परमां गतिम् ।।६३ दशलक्षणकं धर्ममनुतिष्ठन्समाहितः। वेदान्तं विधिवच्छ त्वा संन्यसेदनृणो द्विजः ॥६४ संन्यस्य सर्वकर्माणि कर्मदोषानपानुदन् । नियतो वेदमभ्यस्य पुत्रैश्वर्ये सुखं वसेत् ।।१५ एवं संन्यस्य कर्माणि स्वकार्यपरमोऽस्पृहः । संन्यासेनापहत्यैनः प्राप्नोति परमां गतिम् ।।६६ एष वोऽभिहितो धर्मो ब्राह्मणस्य चतुर्विधः।
पुण्योऽक्षयफल: प्रेत्य राज्ञां धर्म निबोधतः ।।६७ इति मानवे धर्मशास्त्रे भृगुप्रोक्तायां मनुस्मृत्यां षष्ठोऽध्यायः ।
-०*०