SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ ऽध्यायः] स्त्रीधर्मवर्णनम् । विशीलः कामवृत्तो वा गुणैर्वा परिवर्जितः। उपचर्यः स्त्रिया साध्या सततं देववत्पतिः ॥१५४ नास्ति स्त्रीणां पृथग्यज्ञो न व्रतं नाप्युपोषितम् । पतिं शुश्रूषते येन तेन स्वर्गे महीयते ॥१५५ पाणिग्राहस्य साध्वी स्त्री जीवतो वा मृतस्य वा । पतिलोकमभीप्सन्ती नाचरेत्किंचिदप्रियम् ।।१५६ कामं तु क्षपयेह हे पुष्पमूलफलैः शुभैः। न तु नामापि गृह्णीयात्पत्यौ प्रेते परस्य तु ॥१५७ आसीतामरणात्क्षान्ता नियता ब्रह्मचारिणी । यो धर्म एकपत्नीनां काकुन्ती तमनुत्तमम् ।।१५८ अनेकानि सहस्राणि कुमारब्रह्मचारिणाम् । दिवं गतानि विप्राणामकृत्वा कुलसन्ततिम् ॥१५६ मृते भर्तरि साध्वी स्त्री ब्रह्मचर्ये व्यवस्थिता । स्वर्ग गच्छत्यपुत्राऽपि यथा ते ब्रह्मचारिणः ।।१६० अपत्यलोभाद्या तु स्त्री भर्तारमतिबर्तते । सेह निन्दामवाप्नोति परलोकाच हीयते ॥१६१ नान्योत्पन्ना प्रजास्तीह न चान्यस्यपरिग्रहे। न द्वितीयश्च साध्वीनां कचिद्भर्तोपदिश्यते ॥१६२ पतिं हित्वापकृष्णं स्वमुत्कष्टं या निषेवते। निन्द्य व सा भवेल्लोके परपूर्वेति चोच्यते ॥१६३ व्यभिचारात्तुभर्तुःस्त्री लोके प्राप्नोति निन्द्यताम् । शृगालयोनि प्राप्नोति पापरोगैश्च पीड्यते ॥१६४
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy