SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ ऽध्यायः द्रव्यशुद्धिवर्णनम् । एष शौचस्य वः प्रोक्तः शरीरस्य विनिर्णयः। नानाविधानां द्रव्याणां शुद्ध शृणुत निर्णयम् ।।११० तैजसानां मणीनां च सर्वस्याश्ममयस्य च । भस्मनाऽद्भिमदा चैव शुद्धिरुक्ता मनीषिभिः॥१११ विलेपं कांचनं भाण्डमद्भिरेव विशुध्यति । अब्जमश्ममयं चैव राजतं चानुपस्कृतम् ॥११२ अपामग्नेश्च संयोगाद्ध रौप्यं च निर्बभौ । तस्मात्तयोः स्वयोन्यैव निर्णको गुणवत्तरः॥११३ ताम्रायः कांस्यरैत्यानां त्रपुणः सीसकस्य च । शौचं यथार्ह कर्तव्यं क्षाराम्लोदकवारिभिः॥११४ द्रवाणां चैव सर्वेषां शुद्धिरुत्पवनं स्मृतम् । प्रोक्षणं संहतानां च दारवाणां च तक्षणम् ।।११५ मार्जनं यज्ञपात्राणां पाणिना यज्ञकर्मणि । चमसानां ग्रहाणां च शुद्धिः प्रक्षालनेन तु ॥११६ चरूणां उक्त वाणां च शुद्धिरुष्णेन वारिणा । स्फ्यशूर्पशकटानां च मुसलोलूखलस्य च ॥११७ अद्भिस्तु प्रोक्षणं शौचं बहूनां धान्यवाससाम् । प्रक्षालनेन त्वल्पानामद्भिः शौचं विधीयते ॥११८ चैलवच्चर्मणां शुद्धिवॆदलानां तथैव च । शाकमूलफलानां च धान्यवच्छद्धिरिष्यते ॥११६ कौशेयाविकयोरूषैः कुतपानामरिष्टकैः । श्रीफलैरंशुपट्टानां क्षौमाणां गौरसर्षपैः ॥१२०
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy