SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ ऽध्यायः] श्राद्धवर्णनम्। ज्ञानोत्कृष्टाय देयानि कव्यानि च हवींषि च । न हि हस्तावमृग्दिग्धौ रुधिरेणैव शुद्धथतः ॥१३२ सावतो असते. प्रासान् हव्यकव्येष्वमन्त्रवित्। " तावतो असते प्रेत्य दीप्तशूलष्टय योगुडान् ।।१३३ ज्ञाननिष्ठा द्विजाः केचित् तपोनिष्ठास्तथापरे । तपःस्वाध्यायनिष्ठाश्च कर्मनिष्ठास्तथापरे ॥१३४ . ज्ञाननिष्ठेषु कव्यानि प्रतिष्ठाप्यानि यत्नतः । हव्यानि तु यधान्यायं सर्वेष्वेव चतुर्वपि ।।१३५ अश्रोत्रियः पिता यस्य पुत्रः स्याद्वदपारगः । अश्रोत्रियो वा पुत्रः स्यात् पिता स्यादपारगः ॥१३६ ज्यायांसमनयोविद्यात् यस्य स्याच्छोत्रियः पिता। मन्त्रसंपूजनाथं तु सत्कारमितरोऽर्हति ॥१३७ न श्राद्ध भोजयेन्मित्रं धनैः कार्योऽस्य संग्रहः । नारिं न मित्रं यं विद्यात्तं श्राद्ध भोजयेद्विजम् ।।१३८ यस्य मित्रप्रधानानि श्राद्धानि च हवींषि च । तस्य प्रेत्य फलं नास्ति श्राद्धषु च हविःषु च ॥१३६ यः सङ्गतानि कुरुते मोहाच्छाद्धन मानवः । स स्वर्गाच्च्यवते लोकाच्छाद्धमित्रो द्विजाधमः ।।१४० सम्भोजनी साभिहिता पैशाची दक्षिणा द्विजैः । इहैवास्ते तु सा लोके गौरन्धेवैकवेश्मनि ॥१४१ यथेरिणे बीजमुत्वा न वप्ता लभते फलम् । तथाऽनृचे हविर्दत्त्वा न दाता लभते फलम् ॥१४२
SR No.032667
Book TitleSmruti Sandarbh Part 01
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages700
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy