________________
સમ્રાટ્ સ'પ્રતિ
૩૫૪
एवं निवेद्य सर्वाऽपि कथा पूर्वा सविस्तरा । तथा निवेदिता तस्य, पश्चात्तापं यथा गतः ॥ ४० ॥ ततस्तत्क्षमणाहेतोर्निर्जगाम पुराद्बहिः । परिवारयुतो राजा, दृष्ट्वा तं च तथास्थितं ॥४१॥ विलग्य पादयोः कृत्वा, प्रणामं तस्य भूपतिः । लज्जावनम्रवदनो, बभाषे गद्गदाक्षरम् ॥४२॥ क्षम्यतामपराधोऽयमेकमा गम्यतां गृहम् | अविचारितकारित्वं नो विधास्येऽन्यदा पुनः । ४३ । क्षमाधना महात्मानो, भवन्ति प्रणते तथा । अत उत्थीयतां तात !, प्रसादः क्रियतां मयि । ४४ । चाणक्योऽप्यवदत्पुत्र !, न मे कोपोऽधुना क्वचित् । तदुत्तिष्ठ गृहं याहि, गृहीतानशनो ह्यहम् ४५ इत्युक्त्वा मौनमास्थाय यावदेष पुनः स्थितः। वन्दित्वा क्षमयित्वा च तावद्राजा गृहं गतः ४६ सुबन्धुरपि विज्ञाय तचेष्टां कुटिलाशयः । चिन्तयामास यद्येषः, कथंचिगृहमेष्यति ||४७|| तदास्मद्वंशनामापि, नूनमुच्छेत्स्यतेऽमुना । ततो विज्ञपयामास, सप्रश्रयमिलापतिम् ||४८॥ यथाऽयं देव ! चाणक्यः, समभावव्यवस्थितः । पूजाहवदनुमत्या, पूजामस्य करोम्यतः ४९ एवं कुर्वित्यनुज्ञातो, भूपालेनैष मायया । पूजां कर्त्तुमथारेभे पुष्पगन्धादिभिर्वरैः ॥ ५० ॥ धूपमुद्राहयनेव, करीषान्तर्न्यपातयत् । ततोऽसावेकमङ्गार - मलक्षितमिहापरैः ॥ ५१ ॥ अत्रान्तरे विलोक्येव, दुर्बुद्धेस्तस्य चेष्टितम् । प्रतीकारासमर्थत्वाद्रविरस्तमुपागतः ॥ ५२ ॥ पश्यन्त्या एव मे पश्य, कीदृगेष विचेष्टते । इति रोषारुणेवासीत्संध्या रागच्छलादलम् ||५३ || तथा दृष्ट्वेव तन्मृत्युमप्रतीकारमागतम् । तमश्छन्ना दिशो जाताः, शोकेनेवान्धकारिताः ५४ सुबन्धुरपि संतुष्टः, समीहितविधानतः । काञ्चित्कालकलां स्थित्वा जगाम स्वगृहं ततः । ५५ । वायुं सहचरं प्राप्य, करीषातन्तर्गतोऽनलः । सोऽपि तं दग्धुमारेभे, समभावव्यवस्थितम् । ५६ ।
अपि च-
चाणक्यश्चिन्तयामास, रे जीव ! भवतैव यत् । उपार्जितं पुरा दुःखं तत्तवैतदुपस्थितम् ॥ ५७ ॥ विद्वेषं मागमस्तस्मात्कस्याप्युपरि विक्लवः । जैनमागममेवेह, चिन्तयस्व समाहितः ॥ ५८ ॥ यस्मादमुत्र संसारे, सर्वे जीवा अनन्तशः । शत्रुत्वं मित्रभावं च तवापन्ना अनेकधा ||५९ || यथैते ते तथैतेषां त्वं चैवं तेन मा कृथाः । कर्मारिविजये सख्यौ, सुबन्धुसचिवे रुषम् ॥६०॥ एवं सर्वेषु जीवेषु, समभावं विभावयन् | उच्चारयन्नमस्कारं पञ्चानां परमेष्ठिनाम् ॥ ६१ ॥ लोकाग्रतसिद्धानां दददालोचनां तथा । व्रतान्यनुस्मरन् भक्तया, दग्धोऽसौ जातवेदसा । ६२ वृन्दारकः समुत्पेदे, देवलोके महर्द्धिकः । विशुद्ध ध्यानयोगेन तदानीमस्तकल्मषः ॥ ६३ ॥ सुबन्धुरपि गच्छत्सु दिवसेष्वथ केषुचित् । जज्ञे प्रसादसत्पात्रं, बिन्दुसारस्य भूपतेः ॥ ६४ ॥ स्वावासार्थं ययाचे च, चाणक्यगृहमन्यदा । भूपतिः तदनुज्ञातः प्रविवेश मुदा तकत् ।। ६५।। एकापवरकं तत्र, दृष्ट्वा यत्नेन तालितम् । लोभादुद्घाटयामास, मञ्जूषां तत्र वीक्ष्य च ॥६६॥