SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ ॐ नमो भगवते वासुदेवाय । ॐ इति ज्ञानमात्रेण रागाजीर्णन जीर्यतः । कालनिद्रां प्रपन्नोऽस्मि त्राहि मां मधुसूदन ॥१॥ न गतिविद्यते नाथ त्वमेव शरणं प्रभो। पापपङ्के निमग्नोऽस्मि त्राहि मां मधुसूदन ॥२॥ मो हितो मोहजालेन पुत्रदारधनादिषु । तृष्णया पीड्यमानोऽस्मि त्राहि मां मधुसूदन ॥३॥ भ क्ति होनश्च दीनं च दुःखशोकातुरं प्रभो। अनाश्रयमनाथं च त्राहि मां मधुसूदन ॥४॥ ग तागतेन श्रान्तोऽस्मि दीर्घसंसारखमसु । येन भूयो न गच्छामि त्राहि मां मधुसूदन ॥ ५॥ व हवो हि मया दृष्टा योनिद्वारः पृथक पृथक् । गर्भवासे महद्दुःखं त्राहि मां मधुसूदन ॥ ६ ॥ ते न देव प्रपन्नोऽस्मि त्राणार्थे त्वत्परायणः । देहि संसारमोक्षं त्वं त्राहि मां मधुसूदन ॥७॥ वा चा यच्च प्रतिज्ञातं कर्मणा न कृतं मया । सोऽहं कर्मदुराचारस्त्राहि मां मधुसूदन ॥ ८॥ “सु कृतं न कृतं किंचिद् दुष्कृतं च कृतं मया। घोरसंसारमग्नोऽस्मि त्राहि मां मधुसूदन ॥ ६॥ दे हान्तरसहस्रषु चान्योन्यं भ्रामितं मया। तिर्यग्योनिमनुष्येषु त्राहि मां मधुसूदन ॥ १०॥
SR No.032601
Book TitlePranav Gita Part 02
Original Sutra AuthorN/A
AuthorGyanendranath Mukhopadhyaya
PublisherRamendranath Mukhopadhyaya
Publication Year1998
Total Pages378
LanguageHindi, Sanskrit
ClassificationInterfaith
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy