SearchBrowseAboutContactDonate
Page Preview
Page 998
Loading...
Download File
Download File
Page Text
________________ १२४ रघुवंशे व्याख्या-राघवः = रामचन्द्रः रथं = स्यन्दनं रामस्येति यावत् अप्राप्ताम् = अगताम् तां = शतघ्नीं गदां सुरान् = देवान् द्विषन्ति, इति सुरद्विषस्तेषां सुरद्विषां = राक्षसानाम् आशा = रामस्य विजयतृष्णां च "आशा ककुभि तृष्णायामि"ति हैमः । अर्ध चन्द्रस्येति अर्धचन्द्रः । अर्धचन्द्रः इव मुखं येषां ते तैः अर्धचन्द्रमुखैः = वालचन्द्राग्रभागैरित्यर्थः बाणैः = शरैः कदल्यामिव सुखमक्लेशः यस्मिन् कर्मणि तत् कदलीसुखं = कदलीवत् अनायासेन यथा तथा चिच्छेद = चकर्त। समासः-सुराणां द्विषः सुरद्विषस्तेषां सुरद्विषाम् । न प्राप्ता अप्राप्ता ताम् अप्राप्ताम् । चन्द्रस्यार्धमिति अर्धचन्द्रः । अर्धचन्द्र इव मुखं येषां ते तैः अर्धचन्द्रमुखैः। कदलीवत् सुखं यस्मिन् कर्मणि तत्। हिन्दी-रामचन्द्रजी ने अपने रथ तक पहुँचने के पूर्व ही उस शतघ्नी नाम की गदा को और “साथ ही" राक्षसों की राम को जीतने की तृष्णा को अर्धचन्द्राकार ( तिरछी नोंक वाले) बाणों से ऐसी सरलता से काट दिया, जैसे केले को अनायास ही काट डालते हैं ॥९६॥ अमोघं संदधे चास्मै धनुष्येकधनुर्धरः । ब्राह्ममस्त्रं प्रियाशोकशल्यनिष्कर्षणौषधम् ॥ ९७ ॥ एकोऽद्वितीयो धनुर्धरो रामः प्रियायाः शोक एव शल्यं तस्य निष्कर्षणमुद्धारकं यदौषधं तदमोघं ब्राह्म ब्रह्मदेवताकमस्त्रमभिमन्त्रितं बाणमस्मै रावणाय च । तद्वधार्थमित्यर्थः । धनुषि संदधे॥ अन्वयः-एकधनुर्धरः रामः प्रियाशोकशल्यनिष्कर्षणौषधम् अमोघं ब्राह्मम् अस्त्रं धनुषि संदधे। व्याख्या-धरतीति धरः। धनुषः = चापस्य धरः = धर्ता, धनुर्धरः । एकः अद्वितीयः धनुर्धरः चापधरः इति एकधनुर्धरः रामः = राघवः प्रियायाः सीतायाः शोकः = शुक् एव शल्यं - कीलमिति प्रियाशोकशल्यं, तस्य निष्कर्षणं = समुद्धारकं यत् औषधं = भैषज्यं तत् प्रियाशोकशल्यनिष्कर्षणौषधम् , न मोघम् अमोघं तत् अमोघम् = सफलं ब्रह्मा देवता अस्य तत् ब्राह्मम् अस्त्रं = शस्त्रं, ब्रह्मदेवताकमंत्रेणाभिमत्रितं बाणमित्यर्थः । अस्मै =रावणाय, रावणं हन्तुमित्यर्थः । धनुषि = चापे संदधे =संहितवान् । “मन्युशोकौ तु शुक् स्त्रियामि"त्यमरः । समासः-एकश्चासौ धनुषः धरः, इति एकधनुर्धरः। न मोवमिति अमोघं तत् अमोघम् । प्रियायाः शोकः प्रियाशोकः । प्रियाशोक एव शल्यमिति प्रियाशोकशल्यं तस्य निष्कर्षणं यत् औषधं, तत् प्रियाशोकशल्यनिष्कर्षणौषधम् । हिन्दी-संसार में एकमात्र अद्वितीय धनुर्धारी राम ने रावण को मारने के लिये कभी न चूकने वाले ब्रह्मास्त्र को धनुष पर चढ़ाया। बाण क्या था ? मानो सीताजी के शोक रूपी काँटों को निकालने के लिये सफल औषधि थी ॥ ९७ ॥ तयोम्नि शतधा मिनं ददृशे दीप्तिमन्मुखम् । वपुर्महोरगस्येव करालफणमण्डलम् ॥ ९८ ॥
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy