SearchBrowseAboutContactDonate
Page Preview
Page 992
Loading...
Download File
Download File
Page Text
________________ ११८ रघुवंशे समासः तनुः छाद्यतेऽनेनेति तनुच्छदस्तं तनुच्छदम् । सुराणां द्विषः सुरद्विषस्तेषां सुरद्विषाम् । उत्पलानां दलानीति उत्पलदलानि, तेषां क्लैब्यमिति उत्पलदलक्लैब्यं, तत् तथोक्तम् । हिन्दी-मातलि ने इन्द्र का, शरीर को ढकनेवाला वह कवच राम को पहना दिया, जिस कवच पर राक्षसों के अस्त्र शस्त्र कमल के पत्तों के समान व्यर्थ हो रहे थे। अर्थात् कमल के पत्ते या पुष्प की पंखुड़ी इतनी कोमल होती है कि किसी को मारने पर वे स्वयं मुरझा जाती हैं। इसी प्रकार रावण के बाण उस कवच पर लग कर स्वयं नष्ट हो जाते थे। यह भाव है ॥ ८६॥ अन्योन्यदर्शनप्राप्तविक्रमावसरं चिरात् । रामरावणयोर्यद्धं चरितार्थमिवाभवत् ॥ ८७ ॥ चिरादन्योन्यदर्शनेन प्राप्तविक्रमावसरं रामरावणयोर्युद्धमायोधनं चरितार्थ सफलमभवदिव । प्राक्पराक्रमावसरदौर्बल्याद्विफलस्याद्य तल्लाभात्साफल्यमुत्प्रेक्ष्यते ॥ अन्वयः-चिरात् अन्योऽन्यदर्शनप्राप्तविक्रमावसरम् रामरावणयोः युद्धं चरितार्थम् इव अभवत् । ___ व्याख्या-चिरात् = बहोः कालात् अन्योऽन्यस्य = परस्परस्य दर्शनम् = अवलोकनमिति अन्योन्यदर्शनं तेन प्राप्तः = लब्धः विक्रमस्य = पराक्रमस्य अवसरः प्रसंग: यस्मिन् तत् अन्योन्यदर्शनप्राप्तविक्रमावसरम् । रामश्च रावणश्चेत्यनयोः द्वन्द्वः रामरावणौ तयोः रामरावणयोः युद्धं = रणः चरितः अर्थः यस्य तत् चरितार्थ =सफलम् अभवत् =जातम् इव उत्प्रेक्षायाम् । समासः-अन्योन्यस्य दर्शनमिति अन्योन्यदर्शनं तेन प्राप्तः विक्रमस्य अवसरः यस्मिन् तत् अन्योन्यदर्शनप्राप्तविक्रमावसरम् । रामश्च रावणश्चेति रामरावणौ तयोः रामरावणयोः । हिन्दी-बहुत दिनों पर “आज" एक दूसरे को देखने से ( आमने सामने आने पर ) राम और रावण को अपना अपना पराक्रम दिखाने का मौका इस युद्ध में मिला है । अतः राम-रावण का यह युद्ध मानो सफल हो गया है ॥ ८७॥ भुजमूोरुबाहुल्यादेकोऽपि धनदानुजः । ददृशे ह्ययथापूर्वो मातृवंश इव स्थितः ॥ ८८ ॥ यथाभूतः पूर्व यथापूर्वः । सुप्सुपेति समासः । यथापूर्वो न भवतीत्ययथापूर्वः । निहतबन्धुत्वाद्रक्षःपरिचारशून्य इत्यर्थः। अत एवैकोऽपि सन् धनदानुजो रावणः। भुजाश्च मूर्धानश्चोरवः पादाश्च भुजमू|रु । प्राण्यङ्गत्वावन्द्वकवद्भावः । तस्य बाहुल्याबहुत्वाद्धतोः। तद्बहुत्वे यादवः'दशास्यो विंशतिभुजश्चतुष्पान्मातृमन्दिरे' इति । मातृवंशे मातृसंबन्धिनि वर्ग स्थित इव ददृशे दृष्टो हि । 'वंशो वेणौ कुले वगें' इति विश्वः । अत्र रावणमातू रक्षोजातित्वात्तद्वगों रक्षोवर्ग इति लभ्यते । अतश्चैकोऽप्यनेकरक्षःपरिवृत इवालक्ष्यतेत्यर्थः ॥ अन्वयः-अयथापूर्वः “अत एव" एकः अपि सन् धनदानुजः भुजमू/रुबाहुल्यात् मातृवंशे स्थित इव ददृशे ।
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy