SearchBrowseAboutContactDonate
Page Preview
Page 990
Loading...
Download File
Download File
Page Text
________________ ११६ रघुवंशे निर्ययावथ पौलस्त्यः पुनयुद्धाय मन्दिरात् । अरावणमरामं वा जगदधति निश्चितः ॥ ८३ ॥ अथ पौलस्त्यो रावणः। अद्य जगदरावणं रावणशन्यमरामं रामशन्यं वा भवेदिति निश्चितो निश्चितवान् । कर्तरि क्तः । विजयमरणयोरन्यतरनिश्चियवान्पुनयुद्धाय मन्दिरान्निर्ययौ निर्जगाम ॥ अन्वयः-अथ पौलस्त्यः अद्य जगत् अरावणम् अरामं वा "भवेत्" इति निश्चितः । पुनः युद्धाय मन्दिरात् निर्ययौ। ___ व्याख्या-अथ = कुम्भकर्णमरणानन्तरम् पौलस्त्यः = रावणः अद्य = अत्राह्नि जगत् = संसारः अविद्यमानः रावणः यस्मिन् तत् अरावणम् =रावणेन शून्यम् , अविद्यमानः रामः यस्मिन् तत् अराम =रामेण रहितं वा = पक्षान्तरे भवेदिति निश्चितः = निश्चितवान् । पुनः = भूयः युद्धाय = युद्धं कर्तु मन्दिरात् = स्वगृहात् निययौ = निर्गतः । समासः-अविद्यमानः रावणः यस्मिन् तत् अरावणम् । अविद्यमानः रामः यस्मिन् तत् अरामम् । हिन्दी-कुम्भकर्ण के मरने पर रावण ने आज संसार में रावण रहेगा या राम ही रहेगा यह निश्चय कर लिया । अर्थात् आज जय प्राप्त करूँगा या मर जाऊँगा। यह प्रतिज्ञा करके युद्ध के लिये राजभवन से निकल पड़ा ॥ ८३ ॥ रामं पदातिमालोक्य लङ्कशं च वरूथिनम् । हरियुग्यं रथं तस्मै प्रजिघाय पुरदरः ॥ ८४ ॥ पादाभ्यामततोति पदातिः “पादस्य पदाज्यातिगोपहतेषु" इति पदादेशः । तं पादचारिणं रामम् । वरूथो रथगुप्तिः । 'रथगुप्तिर्वरूथो ना' इत्यमरः । अत्र वरूथेन रथो लक्ष्यते । वरूथिनं रथिनं लङ्केशं चालोक्य पुरंदर इन्द्रः। युगं वहन्तीति युग्या रथाश्वाः । 'तद्वहति रथयुगप्रासङ्गम्' इति यत्प्रत्ययः, हरियुग्यं कपिलवर्णाश्वम् । 'शुकाहिकपिभेकेषु हरिर्ना कपिले त्रिषु' इत्यमरः । रथं तस्मै रामाय प्रजिघाय प्रहितवान् ॥ अन्वयः—पदातिं रामं, वरूथिनं लंकेशं च आलोक्य, पुरन्दरः हरियुग्यं रथं तस्मै प्रजिधाय । व्याख्या-पादाभ्याम् अतति = गच्छतीति पदातिः तं पदाति = पादचारिणं रामं = रामचन्द्रं वरूथः= रथस्य गुप्तिः =आवरणम् । अत्र च वरूथशब्देन लक्षणया रथः गृह्यते । वरूथः= स्यन्दनमस्येति वरूथी तं वरूथिनं = रथिनं लंकायाः ईशः लंकेशस्तं लंकेशं = रावणं च आलोक्य = दृष्ट्वा पुराणि दारयतीति पुरन्दरः= इन्द्रः युगं वहन्तीति युग्याः । हरयः = हरिद्वर्णाः कपिलाः इत्यर्थः, युग्याः=अश्वाः यस्य स तं हरियुग्यं रथं = स्यन्दनं स्वकीयरथमित्यर्थः तस्मै = रामाय प्रजिघाय = प्रेषयामास । समासः-लंकायाः ईशः लंकेशस्तं लंकेशम् । हरयः युग्याः यस्य स तं हरियुग्यम् । हिन्दी-"इस युद्ध में" रामचन्द्र जी को पैदल और लंका के राजा रावण को रथ पर देखकर इन्द्र ने हरे पीले रंग के घोड़े जुते अपने रथ को राम के लिये भेज दिया ॥ ८४ ॥
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy