SearchBrowseAboutContactDonate
Page Preview
Page 987
Loading...
Download File
Download File
Page Text
________________ द्वादशः सर्गः हिन्दी-नागपाश के हटने पर, रावणपुत्र मेघनाद ने शक्ति बाण से लक्ष्मण के हृदय को वेध दिया। और राम तो बिना मारे ही "लक्ष्मण को देखकर" शोक से विदीर्ण हृदय वाले हो गये । अर्थात् शोक से उनका हृदय फटने लगा ॥ ७७ ॥ स मारुतिसमानीतमहौषधिहतव्यथः । लङ्कास्त्रीणां पुनश्चके विलापाचार्यकं शरैः ॥ ७८ ॥ स लक्ष्मणो मारुतिना मरुत्सुतेन हनुमता समानीतया महौषध्या संजीविन्या हतव्यथः सन्पुनः शरैर्लङ्कास्त्रीणां विलापे परिदेवने। 'विलापः परिदेवनम्' इत्यमरः। आचार्यकमाचार्यकर्म । 'योपधाद्गुरूपोत्तमावुञ्' इति वुञ् । चक्रे पुनरपि राक्षसाञ्जवानेति व्यज्यते ॥ अन्वयः-सः मारुतिसमानीतमहौषधिहतव्यथः सन् पुनः शरैः लंकास्त्रीणाम् विलापाचार्यकं चक्र। __ व्याख्या-महती चासौ ओषधिः महौषधिः । मरुतस्यापत्यं पुमान् मारुतिः । मारुतिनाहनुमता समानीता =आनीता या महौषधिः =संजीविनी तया हता = दूरीभृता नष्टा व्यथा = पीडा यस्य स मारुतिसमानीतमहौषधिहतव्यथः सन् सः लक्ष्मणः पुनः =भूयः लङ्कायाः = रावणपुर्याः स्त्रियः = राक्षस्यः तासां लङ्कास्त्रीणां विलापे = परिदेवने, रोदने इत्यर्थः । आचार्यकम् = आचार्यकर्म, इति विलापाचार्यकं चक्रे = कृतवान्। पुनः राक्षसविनाशकरणेन तासां विलापयिता जातः इत्यर्थः। समासः-महती चासौ ओषधिरिति महौषधिः । मारुतिना समानीता या महौषधिः तया हता व्यथा यस्य स मारुतिसमानीतमहौषधिहतव्यथः। विलापे आचार्यकं विलापाचार्यक तद् विलापाचार्यकम् । लङ्कायाः स्त्रियस्तासां लङ्कास्त्रीणाम् । हिन्दी-हनुमान जी के द्वारा धौलागिरि से लाई संजीविनी बूटी से पोड़ा के नष्ट होते ही लक्ष्मणजी ने फिर लङ्का की स्त्रियों के रोने-चिल्लाने में आचार्य का काम किया । अर्थात् संजीविनी बूटी पीने पर स्वस्थ हुए लक्ष्मण ने राक्षसों को मार कर उन की विधवाओं को खूब रुलाया ॥ ७८॥ स नादं मेघनादस्य धनुश्चेन्द्रायुधप्रभम् । मेघस्येव शरत्कालो न किंचित्पर्यशेषयत् ॥ ७९ ॥ स लक्ष्मणः। शरत्कालो मेघस्येव । मेघनादस्येन्द्रजितो नादं सिंहनादम् । अन्यत्र गर्जितं च इन्द्रायुधप्रभं शक्रधनु:प्रभं धनुश्च किंचिदल्पमपि न पर्यशेषयन्नावशेषितवान् । तमवधीदित्यर्थः॥ अन्वयः-सः शरत्कालः मेघस्य इव मेघनादस्य नादम् , इन्द्रायुधप्रमं धनुः च न किंचित् पर्यशेषयत् । व्याख्या-सः= लक्ष्मणः शरदः = शरदृतोः कालः =समयः इति शरत्काल: मेवस्य = जलधरस्य इव = यथा मेघस्य = घनस्य नादः = गर्जनम् इव नादः यस्य स तस्य मेवनादस्य =
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy