SearchBrowseAboutContactDonate
Page Preview
Page 980
Loading...
Download File
Download File
Page Text
________________ रघुवंशे समासः-हृदये न्यस्तः हृदयन्यस्तः हृदयन्यरतश्चासौ मणिः हृदयन्यस्तमणिः, तस्य स्पर्शस्तेन निमीलितः इति हृदयन्यस्तमणिस्पर्शनिमीलितः । अविद्यमानः पयोधरयोः संसर्गः यस्याः सा ताम् अपयोधरसंसर्गाम् । प्रियायाः आलिंगनमिति प्रियालिंगनं तेन या निर्वृतिस्तां प्रियालिंगननिर्वृतिम् ॥ ___हिन्दी-वक्षस्थल पर ( छाती पर ) रखी हुई सीताजी की चूड़ामणि के स्पर्श से आनन्द विभोर हुए रामचन्द्रजी ने स्तनों के स्पर्शरहित सीताजी के आलिंगन सुख को प्राप्त कर लिया। अर्थात् उस मणि को छाती से लगाकर रामजी को ऐसा अनुभव हुआ, मानों सीताजी ही आ मिली हो ॥ ६५॥ श्रुत्वा रामः प्रियोदन्तं मेने तत्सङ्गमोत्सुकः । महार्णवपरिक्षेपं लङ्कायाः परिखालघुम् ॥ ६६ ॥ प्रियाया उदन्तं वार्ताम् । 'उदन्तः साधुवार्तयोः' इति विश्वः। श्रुत्वा तस्याः सीतायाः संगम उत्सुको रामो लङ्कायाः संबन्धी यो महार्णव एव परिक्षेपः परिवेषस्तं परिखालधुं दुर्गवेष्ट नवत्सुतरं मेने ॥ __अन्वयः-प्रियोदन्तं श्रुत्वा तत्संगमोत्सुकः रामः लंकायाः महार्णवपरिक्षेपं परिखालघुम् भेने। ___व्याख्या-प्रियायाः= सीतायाः उदन्तः = वार्ता, इति प्रियोदन्तस्तं प्रियोदन्तं “वार्ता प्रवृत्तिवृत्तान्त उदन्तः स्यात्" इत्यमरः । श्रुत्वा = आकर्ण्य हनुमन्मुखादित्यर्थः । उद्गतः अन्तः यस्य स उदन्तः । तस्याः= सीतायाः संगमः= मिलनं तत्र उत्सुकः = उत्कण्ठितः इति तत्संगमोत्सुकः रामः=राववः लंकायाः=रावणनगर्याः अाँसि= जलानि सन्ति यत्र सः अर्णवः = समुद्रः महांश्चासौ अर्णवः महार्णवः। महार्णवः =महासागरः एव परिक्षेपः = परिवेषः, परितो वेष्टनमित्यर्थः । तं महार्णवपरिक्षेपम् परितः खन्यते इति परिखा = खेयं । परिखावत् लघुः= सुतरस्तं परिखालवू मेने = अमंस्त । समासः-तस्याः संगमः तत्संगमस्तत्र उत्सुकः इति तत्संगमोत्सुकः। प्रियाया उदन्तः प्रियोदन्तस्तं प्रियोदन्तम् । महांश्चासौ अर्णवः महार्णवः, स एव परिक्षेपस्तं महार्णवपरिक्षेपम् । परिखावत् लघुः परिखालघुस्तं तथोक्तम् । हिन्दी-सीताजी का सन्देश सुनकर उनसे मिलने के लिए उत्कण्ठित ( उतावले ) हुए राम ने लंका के चारों और महासागर के घेरे को भी एक खाई के समान माना। अर्थात् गहरे चौड़े समुद्र को भी राम ने किले की खाई की तरह लांधने योग्य माना ॥ ६६ ॥ स प्रतस्थेऽरिनाशाय हरिसैन्यैरनुद्रुतः । न केवलं भुवः पृष्ठे व्योम्नि संबाधवर्तिभिः ॥ ६७ ॥ केवलमेकं भुवः पृष्ठे भूतले न किंतु व्योम्नि च संबाधवर्तिभिः संकटगामिभिर्हरिसैन्यैः कपिबलैरनुद्रुतोऽन्वितः सन्स रामोऽरिनाशाय प्रतस्थे चचाल ॥
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy