SearchBrowseAboutContactDonate
Page Preview
Page 960
Loading...
Download File
Download File
Page Text
________________ रघुवंशे पञ्चवट्यां ततो रामः शासनात्कुम्भजन्मनः । अनपोढस्थितिस्तस्थौ विन्ध्याद्रिः प्रकृताविव ॥ ३१॥ ततो रामः कुम्भजन्मनोऽगस्त्यस्य शासनात् । पञ्चानां वटानां समाहारः पञ्चवटी। 'तद्धितार्थ'-इति तत्पुरुषः। 'संख्यापूर्वी द्विगुः' इति द्विगुसंज्ञायाम् 'द्विगोः' इति ङीप् । 'द्विगुरेकवचनम्' इत्येकवचनम् । तस्यां पञ्चवट्याम् । विन्ध्याद्रिः प्रकृतौ वृद्धः पूर्वावस्थायामिव । अनपोढस्थितिरनतिक्रान्तमर्यादस्तस्थौ ॥ अन्वयः-ततः रामः कुम्भजन्मनः शासनात् पञ्चवट्यां विन्ध्याद्रिः प्रकृतौ इव अनपोढस्थितिः तस्थौ। व्याख्या-ततः = अनन्तरम् रामः = दाशरथिः कं =जलम् उम्भति = पूरयतोति कुम्भः । कुं= भुवं वा उम्भतीति कुम्भः । कुम्भात् = घटात् जन्म = उत्पत्तिर्यस्यासौ तस्य कुम्भजन्मनः = अगस्त्यस्य महर्षेः शासनात् =आदेशात् पञ्चानां = वटानां समाहारः पञ्चवटी तस्यां पञ्चवट्याम् विरुद्धं ध्यायति वि इध्यते वा विन्ध्यः विन्ध्यश्चासौ अद्रिश्चेति विन्ध्याद्रिः = विन्ध्याचलः प्रकृतौ = पूर्वावस्थायाम् इव = यथा न अपोढा अनपोढा = अपरित्यक्ता स्थितिः = मर्यादा येन सःअनपोढस्थितिः तस्थौ = स्थितः निवासं कृतवानित्यर्थः । समासः–पञ्चानां वटानां समाहारः पञ्चवटी तस्यां पञ्चवट्याम् । कुम्भात् जन्म यस्य स कुम्भजन्मा तस्य कुम्भजन्मनः । न अपोढा अनपोढा, स्थितिः यस्य सः अनपोढस्थितिः । विन्ध्यश्वासौ अद्रिः विन्ध्याद्रिः। हिन्दी-"चित्रकूट से चलकर" रामचन्द्रजी अगस्त्यमुनि की आज्ञा से पञ्चवटी में मर्यादापूर्वक उसी प्रकार रहने लगे, जैसे विन्ध्यपर्वत ऋषि की आज्ञा से अपनी पूर्वावस्था में रहता है । अर्थात् खड़ा न रहकर लेटा ही रहता है। विशेष-पाच बटों का समाहार में तद्धितार्थ तत्पुरुष समास है। संख्या पञ्चन् पूर्वक होने से द्विगु संज्ञा है। द्विगोः सूत्र से डीप तथा द्विगु समास में एक वचन ही रहता है। पंचवटी में अश्वत्थ ( पीपल ) पूर्व में, बिल्व उत्तर में थे, बड़ पश्चिम में, आंवला दक्षिण में और अशोक अग्निकोण में रहता है तथा मध्य में वेदी होती है। यह पंचवटी का स्वरूप है ॥३१॥ रावणावरजा तत्र राघवं मदनातुरा । अमिपेदे निदाघार्ता व्यालीव मलयद्रुमम् ॥ ३२ ॥ तत्र पञ्चवट्यां मदनातुरा रावणावरजा शूर्पणखा। 'पूर्वपदात्संज्ञायामगः' इति णत्वम् । राघवम् । निदाघार्ता धर्मतप्ता व्याकुला व्याली भुजंगी मलयद्रुमं चन्दनद्रुममिव । अभिपेदे प्राप ॥ अन्वयः-मदनातुरा रावणावरजा राघवम् निदाघार्ता व्याली मलयद्रुमम् इव अभिपेदे । व्याख्या-तत्र = पञ्चवट्यां मदनेन = कामेन आतुरा = पोडिता, इति मदनातुरा अवरस्मिन् काले जाता अवरजा, रावणस्य अवरजा = अनुजा, इति रावणावरजा = शूर्पणखा,
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy