SearchBrowseAboutContactDonate
Page Preview
Page 957
Loading...
Download File
Download File
Page Text
________________ द्वादशः सर्गः ८३ व्याख्या--सः रामः अतिथिषु =आगन्तुकेषु साधूनि आतिथेयानि तेषु आतिथेयेषु = आगन्तुकहितकरेष्वित्यर्थः । ऋषीणां = मुनीनां कुलानि = आश्रमास्तेषु ऋषिकुलेषु, वर्षासु भवानि वार्षिकाणि तेषु वार्षिकेषु =प्रावृट्कालिकेषु ऋक्षेषु = नक्षत्रेषु "ऋक्षस्तु स्यान्नक्षत्राच्छभल्लयोः" इति हैमः । ऋषति = गच्छतीति ऋक्षः । नक्षत्रे नपुंसकमिति । राशिषु व भास्करः = सूर्यः इव = यथा वसन् = तिष्ठन्नित्यर्थः दक्षिणाम् = अगस्त्यसेवितां दिशं = काष्ठां प्रययौ =जगाम ।। समासः-ऋषीणां कुलानि तेषु ऋषिकुलेषु । हिन्दी-अतिथियों का सत्कार करने वाले ऋषियों के आश्रमों में ठहरते हुए रामचन्द्रजी, उसी प्रकार दक्षिण दिशा की ओर चले गये जैसे वर्षा ऋतु के नक्षत्रों में ठहरता हुआ सूर्य दक्षिण में घूम जाता है । अर्थात् दक्षिणायन में हो जाता है ॥ २६ ॥ बभौ तमनुगच्छन्ती विदेहाधिपतेः सुता । प्रतिषिद्धापि कैकेय्या लक्ष्मीरिव गुणोन्मुखी ॥ २६ ॥ तं राममनुगच्छन्ती विदेहाधिपतेः सुता सीता कैकेय्या प्रतिषिद्धा निवारितापि गुणोन्मुखी गुणोत्सुका लक्ष्मी राजलक्ष्मीरिव बभौ ॥ ___ अन्वयः-तम् अनुगच्छन्ती विदेहाधिपतेः सुता कैकेय्या प्रतिषिद्धा अपि गुणोन्मुखी लक्ष्मीः इव बभौ। व्याख्या–तरामम् अनुगच्छन्ती = पश्चात् व्रजन्ती, यान्ती विगतः देहः = देहसंबन्धो येषां ते विदेहाः। विदेहानां =जनपदविशेषाणाम् अधिपतिः =राजा, इति विदेहाधिपतिस्तस्य विदेहाधिपतेः = जनकस्य सुता = पुत्री सीता कैकेय्या = भरतमात्रा प्रतिषिद्धा = विनिवारिता अपि गुणेषु = दयादाक्षिण्यशौर्यादिषु उन्मुखी = उत्कण्ठिता, इति गुणोन्मुखी = गुणैकपक्षपातिनीत्यर्थः लक्ष्मीः राज्यलक्ष्मीः इव = यथा बभौ = शुशुभे । समासः-विदेहानाम् अधिपतिः विदेहाधिपतिस्तस्य विदेहाधिपतेः । गुणेषु उन्मुखी गुणोन्मुखी। हिन्दी-राम के पोछे-पीछे जाती हुई, महाराजा जनक की पुत्री सीता जी ऐसो सुशोभितहो रही थी, मानो कैकेयी के रोकने पर भी राम के शौर्य दयादि गुणों से उत्कण्ठित हुई राज्यलक्ष्मी, पीछे-पीछे जा रही हो ॥ २६ ॥ __ अनसूयातिसृष्टेन पुण्यगन्धेन काननम् । सा चकाराङ्गरागेण पुष्पोच्चलितषट्पदम् ॥ २७ ॥ ___सा सीताऽनसूययाऽत्रिभार्ययाऽतिसृष्टेन दत्तेन पुण्यगन्धेनाङ्गरागेण काननं वनं पुष्पेभ्य उच्चलिता निर्गताः षट्पदा यस्मिंस्तत्तथाभूतं चकार ॥ अन्वयः-सा अनसूयातिसृष्टेन पुण्यगन्धेन अंगरागेण काननं पुष्पोच्चलितषट्पदं चकार । व्याख्या-सा=सीता न असूया यत्र अनसूया = कर्दममुनिकन्या, अत्रिमुनिभार्या च । अनसूयया अतिसृष्टः = दत्तः, तेन अनसूयातिसृष्टेन, पुणे साधुः पुण्यः =मनोज्ञः गन्धः =सौरभं
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy