SearchBrowseAboutContactDonate
Page Preview
Page 943
Loading...
Download File
Download File
Page Text
________________ द्वादशः सर्गः तं कर्णमूलमागत्य रामे श्रीय॑स्यतामिति । कैकेयीशङ्कयेवाह पलितच्छद्मना जरा ॥२॥ जरा कैकेयीशङ्कयेव पलितस्य केशादिशौक्ल्यस्य छद्मना मिषेण । 'पलितं जरसा शौक्ल्यं केशादौ' इत्यमरः। कर्णमूलं कर्णोपकण्ठमागत्य राम श्री राज्यलक्ष्मीर्यस्यता निधीयतामिति तमाह । दशरथो वृद्धोऽहमिति विचार्य रामस्य यौवराज्याभिषेकं चकाङ्केत्यर्थः ॥ __अन्वयः-जरा कैकेयीशंकया इव पलितच्छद्मना कर्णमूलम् आगत्य रामे श्रीः न्यस्यताम् इति तम् आह । व्याख्या-जीर्यतेऽनया जरा = विस्रसा "विस्रसा जरा" इत्यमरः कैकयस्यापत्यं स्त्री कैकेयी तस्याः शंका भयमित्यर्थः । तया कैकेयीशंकया इव=यथा पलितस्य = केशशौक्ल्यस्य छद्म = कपटस्तेन पलितच्छद्मना=केशानां शौक्ल्यव्याजेनेत्यर्थः “पलितं जरसा शौक्ल्यं केशादौ" इत्यमरः । कर्णयोः =श्रोत्रयोः मूलम् = अन्तिकमिति कर्णमूलम् आगत्य रामे = रामचन्द्रे श्रीः= राज्यलक्ष्मीः न्यस्यतां = निधीयताम् श्रीरामं यौवराज्ये अभिषिञ्चेत्यर्थः। इति = इत्थं तं = राजानं दशरथम् आह = कथितवती। अहं वृद्धोऽस्मि संवृत्तः इति विचार्य राजा दशरथः स्वज्येष्ठपुत्रस्य रामस्य राज्याभिषेकं कर्तुमिच्छितवान् इति भावः । समासः-कैकेय्याः शंका तया कैकेयीशंकया। पलितस्य छद्म पलितच्छद्म तेन पलितच्छमना । कर्णयोः मूलमिति तत् कर्णमूलम् । हिन्दी-बुढ़ापा मानों, कैकेयी से शंकित होकर ( डरकर ) सफेद बालों के बहाने "राजा" के कान के पास आकर यह कह रहा हो कि राम को राज्यलक्ष्मी सौप दो। अर्थात् राजा ने विचारा कि अब मैं बूढ़ा हो गया हूँ। अतः राम को युवराज बना दूं ॥२॥ सा पौरान्पौरकान्तस्य रामस्याभ्युदयश्रुतिः । प्रत्येकं ह्लादयांचक्रे कुल्येवोद्यानपादपान् ॥ ३ ॥ सा पौरकान्तस्य रामस्याभ्युदयश्रुतिरभिषेकवार्ता । कुल्या कृत्रिमा सरित् । 'कुल्याल्पा कृत्रिमा सरित्' इत्यमरः । उद्यानपादपानिव पौरान प्रत्येकं ह्नादयांचक्रे ॥ अन्वयः-सा पौरकान्तस्य रामस्य अभ्युदयश्रुतिः कुल्या उद्यानपादपान् इव पौरान् प्रत्येकं ह्रादयाञ्चके। ___ व्याख्या-सा =अभिषेकवार्ता पुरे भवाः पौराः । पौराणां = नागरिकाणां कान्तः = मनोरमः, प्रिय इत्यर्थः । इति पौरकान्तस्तस्य पौरकान्तस्य रामस्य = राघवस्य अभ्युदयस्य = अभिषेकरूपस्य श्रुतिः वार्ता, इत्यभिषेकश्रुतिः । श्रूयते या सा श्रुतिः । "श्रुतिः श्रोत्रे तथाम्नाये वार्तायां श्रोत्रकर्मणि" इति विश्वः । कुले प्राणिगणे, कुटुम्बे, दाम्पत्ये वा साधुः कुल्या = जलप्रणालिका "कुल्या नदी कुल्यमस्थि कुल्या वारिप्रणालिका" इति कोषः । उद्यानस्य = आरामस्य राजवाटिकाया इत्यर्थः । पादपाः= वृक्षाः तान् उद्यानपादपान् इव = यथा पौरान =नागरिकान् प्रत्येकम् = एकैकं प्रति ह्रादयाञ्चक्रे = आह्लादयामास ।
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy