SearchBrowseAboutContactDonate
Page Preview
Page 935
Loading...
Download File
Download File
Page Text
________________ एकादशः सर्गः ६१ समासः-हरस्य सूनुः हरसूनु स्तेन संनिभः, इति हरपूनुसंनिभः । कृपया मृदुः कृपा दुः स्खलितं वीर्य यस्य सः, स्खलितवीर्यस्तं स्खलितवीर्यम् । न मोघः अमोघरतम् अमोघम् । हिन्दी-शिवजी के पुत्र कार्तिकेय के समान पराक्रमी एवं दयालु होने के कारण अति कोमल श्रीराम अपने विषय में ( राम के प्रति ) सामर्थ्यहीन परशुरामजी को और धनुष पर चढे अपने अचूक बाण को देखकर बोले ॥ ८३ ॥ न प्रहर्तुमलमस्मि निर्दयं विप्र इत्यभिभवत्यपि त्वयि । शंस किं गतिमनेन पत्रिणा हन्मि लोकमुत ते मखार्जितम् ॥ ८४ ॥ अभिभवत्यपि त्वयि । विप्र इति हेतोः। निईयं प्रहर्तुमलं शक्तो नास्मि किंत्वनेन पत्रिणा शरेण ते गतिं गमनं हन्मि । उत मखार्जितं लोकं स्वर्ग हन्मि शंस ब्रूहि ॥ अन्वयः-अभिभवति अपि त्वयि विप्रः इति निर्दयं प्रहर्तुम् अलं न अस्मि । किन्तु अनेन पत्त्रिणा ते गति हन्मि, उत मखार्जितं लोकं हन्मि शंस ।। ___ व्याख्या-अभिभवति = तिरस्करोतीति अभिभवन् तस्मिन् अभिभवति = तिस्कारपरे अपिः = निश्चये, त्वयि =भवति भार्गवे विप्रातीति विप्रः, उप्यतेऽत्रेति वा विप्रः = ब्राह्मण इति = हेतोः निर्दयं = कृपारहितं प्रहर्तु = प्रहारं कर्तुं मारयितुमित्यर्थः अलं = समर्थः नास्मि = न भवामि । किन्तु अनेन = आरोपितेन अमोघेन पत्रिणा= बाणेन ते = तव भार्गवस्य गति = गमनं हन्मि = नाशयामि उत = अथवा मखैः = यज्ञैः अर्जितः = संचितः प्राप्त इत्यर्थः, इति मखार्जितस्तं मखार्जितं लोकं = स्वर्ग हन्मि, इति त्वं शंस = कथय । समास:-निर्गता दया यस्मिन् तत् निर्दयम् । मखैः अर्जितः मखार्जितस्तं मखार्जितम् । हिन्दी-मेरा अपकार करने वाले तुम को, ब्राह्मण होने कारण मैं निर्दयता पूर्वक मारने में असमर्थ हूं। अर्थात् ब्राह्मणको नहीं मारूंगा। किन्तु यह बतलाइये कि धनुष पर चढे इस सफल बाण से तुम्हारी गति को नष्ट करूं अथवा यज्ञों के द्वारा अर्जन किये हुये स्वर्ग को नष्ट करूं। अर्थात् आप का चलना फिरना रोक दूं या स्वर्ग जाना रोक दूं सो बताइये ॥ ८४ ॥ प्रत्युवाच तमृषिर्न तत्त्वतस्त्वां न वेनि पुरुषं पुरातनम् । गां गतस्य तव धाम वैष्णवं कोपितो ह्यसि मया दिक्षुणा ॥ ४५ ॥ ऋषिर्भार्गवस्तं रामं प्रत्युवाच । किमिति । तत्वतः स्वरूपतस्त्वां पुरातनं पुरुषं न वेद्मीति न। कतु वेड्येवेत्यर्थः। किंतु गां गतस्य भुवमवतीर्णस्य तव वैष्णवं धाम तेजो दिदृक्षणा द्रष्टुमिच्छुना मया कोपितो ह्यसि ॥ अन्वयः-ऋषिः तं प्रत्युवाच, तत्त्वतः त्वां पुरातनं पुरुषं न वेद्मि, इति न। किन्तु गां गतस्य तव वैष्णवं धाम दिदृक्षुणा मया कोपितः हि असि । __व्याख्या--ऋषति = जानातीति ऋषिः = सत्यवाक् भार्गवः “ऋषयः सत्यवचसः” इत्यमरः। तं =राघवं रामम् प्रत्युवाच = प्रत्युक्तवान् । किमित्याह = तत्त्वेनेति तत्त्वतः =स्वरूपतः “तत्त्वं
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy