SearchBrowseAboutContactDonate
Page Preview
Page 925
Loading...
Download File
Download File
Page Text
________________ एकादशः सर्गः अविशेषेणेत्यर्थः वर्तमान = विद्यमानं रमन्ते योगिनोऽस्मिन्निति रामः । राम इति नाम दशरथपुत्रस्यापि भार्गवस्यापि रामनाम, हारः=मुक्ताहारः सर्पः = भुजंगः चेति हारसपौं तयोः हारसर्पयोः वर्तमानं रत्नानां = मणीनां जातं = जातिः, इति रत्नजातम् इव = यथा“जातिर्जातं च सामान्यमि" त्यमरः। अस्य = दशरथस्य हृदयस्य प्रियं हृद्यम् = अभीप्सितं भयं ददातीति भयदायि भयंकरं च अभवत् = जातम् । स्वपुत्रस्य रामनाम प्रियं जातं भार्गवस्य च रामनाम भयप्रदं जातमित्यर्थः । समासः-आत्मनः जातः आत्मजस्तस्मिन् आत्मजे। न हितः अहितस्तस्मिन् अहिते। हारश्च सर्पश्च हारसौ तयोः हारसर्पयोः । रत्नानां जातमिति रत्नजातम् । भयस्य दायि भयदायि । हिन्दी-अपने पुत्र में, तथा घोर शत्र में समान रूप से दोनों का रामनाम, दशरथजी को उसी प्रकार प्रिय भी लगा और दुःखदायी भी। जैसे कि गले में पहने हुवे हार में और सांप में एक सी मणि गले के हार में आनन्ददायी तथा सर्प के मस्तक में वर्तमान मणि भयदायी होती है ॥ ६८॥ अर्घ्यमय॑मिति वादिनं नृपं सोऽनवेक्ष्य भरताग्रजो यतः । क्षत्रकोपदहनार्चिषं ततः संदधे दृशमुदग्रतारकाम् ।। ६९ ॥ स भार्गवः। अयमय॑मिति वादिनं नृपमनवेक्ष्य । यतो यत्र भरताग्रजस्ततस्तत्र । 'इतराभ्योऽपि दृश्यन्ते' इति सार्वविभक्तिकस्तसिः। क्षत्त्रे क्षत्त्रकुले विषये यः कोपदहनो रोषाग्निस्तस्यार्चिषं ज्वालामिव स्थिताम् । 'ज्वालाभासोनपुंस्यचिः' इत्यमरः। उदग्रा तारका कनीनिका यस्यास्ताम् । 'तारकाक्ष्णः कनीनिका' इत्यमरः । दृशं संदधे ॥ अन्वयः-सः अय॑म् अय॑म् इति वादिनं नृपम् अनवेक्ष्य यतः भरताग्रजः ततः क्षत्रकोपदहनार्चिषम् उदग्रतारकां दृशं संदधे । व्याख्या--सः =भार्गवः अद्यते = पूज्यतेऽनेनेति अर्घम् = पूजाविधिः। अर्याय इदमय॑म् अय॑म् इति वादिनम् = अर्धाय जलमर्याय जलमित्येवं ब्रुवन्तं नृपं = राजानं दशरथम् अनवेक्ष्य = अनबलोक्य यतः = यत्र भरतस्य अग्रजः ज्येष्ठः रामः इति भरताग्रजः तत्रः = तत्र तस्मिन् स्थाने इत्यर्थः । क्षत्रे क्षत्रियकुले यः कोपः= क्रोधः स एव दहनः= वह्निस्तस्य अर्चिः इव अर्चि ज्वाला यस्याः सा तां क्षत्रकोपदहनार्चिषम् इव स्थिताम् उदग्रा= उद्गतामा तारका = कनीनिका यस्याः सा तां तथोक्ताम् । दृशं = दृष्टिं संदधे, कृतवानित्यर्थः । दशरथादीन् सर्वान् जनानुपेक्ष्य रामम्प्रत्येव दृष्टवान् इत्यर्थः। ___समासः-अर्घाय इदमय॑म् । भरतस्य अग्रजः भरताग्रजः । क्षत्त्रे यः कोपः स एव दहनः, इति क्षत्रकोपदहनः। तस्य अचिरिव अर्चिः यस्याः सा ताम् । उदग्रा तारका यस्याः सा ताम् उदग्रतारकाम् । हिन्दी-'महर्षि की पूजा ( स्वागत ) करने के लिये जल्दी अर्थ्य लाओ अर्य लाओ' आपके लिये यह अयं ( पूजा की सामग्री है ) इस प्रकार कहने वाले राजा दशरथ जी
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy