SearchBrowseAboutContactDonate
Page Preview
Page 920
Loading...
Download File
Download File
Page Text
________________ रघुवंशे व्याख्या-भाः करोतीति भास्करः= सूर्यः यां दिशं = यरयां दिशि अध्युवास = उषितवान् तां दिशं= तस्यां दिशि श्रिताः= वर्तमानाः शिवाः= सृगालाः क्षत्राणां =राशां शोणितं = रुधिरं तेन पितृणां = स्वर्गतानां क्रिया = तर्पणं तत्र उचितः = अभ्यस्तस्तं क्षत्रशोणितपितृक्रियोचितं भृगोः अपत्यं पुमान् भार्गवस्तं भार्गवं = परशुरामं चोदयन्त्यः= प्रेरयन्त्यः प्रार्थयन्त्य इत्यर्थः इव = यथा प्रतिगतं भयेन प्रतिभयं प्रतिगतं भयमस्मिन्निति वा प्रतिभयं = भीषणं क्रियाविशेषणमिदम् "भीषणं भीष्मं घोरं.. भयंकरं प्रतिभयमि" त्यमरः। ववासिरे = रुरुवुः, अनिष्टमव्यक्तञ्च शब्द चरित्यर्थः । समासः–क्षत्राणां शोणितमिति क्षत्त्रशोणितं तेन पितृणां क्रिया, इति क्षत्रशोणितपितृक्रिया तस्यामुचितरतं क्षत्त्रशोणितपितृक्रियोचितम् । प्रतिगतं भयेन, इति प्रतिभयम् । हिन्दी-और जिस दिशा में सूर्य निवास कर रहे थे, उस दिशा में रहनेवाले शृगाल और शृगालिनियाँ भयंकर अनिष्ट रूप से रोने लगीं, मानो वे क्षत्रियों के खून से अपने पिता का तर्पण करने वाले भगवान् परशुराम को पुकार रही हो। विशेष–परशुराम जी जमदग्नि के पुत्र योद्धा ब्राह्मण, और विष्णु का छठा अवतार थे। महर्षि जमदग्नि के आश्रम से राजा कार्तवीर्य उनकी गौ को जबरन ले गया था। इस अपराध के कारण परशुराम ने राजा का बध किया था। कार्तवीर्य के पुत्रों ने परशुराम की अनुपस्थिति में जमदग्नि का शिर काट दिया था। जब परशुराम ने सुना तो वे बड़े क्रुद्ध हुये, उसी समय सारी क्षत्री जाति के विनाश की प्रतिज्ञा कर कार्तवीर्य के पुत्रों को मारा और २१ बार क्षत्त्री जाति से पृथिवी को शून्य कर दिया था। यही खून से पितृतर्पण का तात्पर्य है । रामावतार होने पर रामजी से हार कर परशुरामजी महेन्द्र पर्वत पर चले गये थे, सो अब भी वहाँ हैं ॥ ६१ ॥ तत्प्रतीपपवनादि वैकृतं प्रेक्ष्य शान्तिमधिकृत्य कृत्यवित् । अन्वयुक्त गुरुमीश्वरः क्षितेः स्वन्तमित्यलघयत्स तद्व्यथाम् ॥ ६२ ॥ तत्प्रतीपपवनादि वैकृतं दुनिमित्तं प्रेक्ष्य कृत्यवित्कार्यशः क्षितेरीश्वरः शान्तिमनर्थनिवृत्तिमधिकृत्योद्दिश्य गुरु वसिष्ठमन्वयुङ्क्तापृच्छत् । 'प्रश्नोऽनुयोगः पृच्छा च' इत्यमरः । स गुरुः स्वन्तं शुभोदक भावीति तस्य राज्ञो व्यथामलघयल्लघूकृतवान् ॥ अन्वयः-तत्प्रतीपपवनादि वैकृतं प्रेक्ष्य कृत्यवित् क्षितेः ईश्वरः शान्तिमधिकृत्य गुरुम् अन्वयुक्त, सः स्वन्तं भावीति तद्व्यथाम् अलवयत् । ___ व्याख्या-सः = पूर्वोक्तः प्रतीपः = प्रतिकूल: पवनः = वायुः आदिः यत्र तत् तत्प्रतीपपवनादि वैकृतम् = अशुभसूचकम् , अनिष्टम् प्रेक्ष्य = अवलोक्य कृत्यं = कार्य वेत्ति = जानातीति कृत्यवित् क्षितेः = पृथिव्याः ईश्वरः- स्वामी, राजा दशरथः, शान्तिम् = अनिष्टशमनम् अधिकृत्य = उद्दिश्य गृणाति उपदिशतीति गुरुः। गिरत्यज्ञानमिति वा गुरुस्तं गुरुं = वशिष्ठम् अन्वयुक्त= पृष्टवान् "प्रश्नोऽनुयोगः पृच्छा च" इत्यमरः। सः=गुरुर्वसिष्ठः सुशोभनम् अन्तः= उदर्कः यस्य तत् स्वन्तं भविष्यतीति तस्य = दशरथस्य व्यथा = पीडा तां तद्व्यथाम् अलघयत् = लघूकृतवान् ।
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy