SearchBrowseAboutContactDonate
Page Preview
Page 916
Loading...
Download File
Download File
Page Text
________________ ४२ रघुवंशे नास्तैः नृपात्मजैः= रामचन्द्रादिभिः, कृतोऽथों याभिस्ताः कृतार्थानां सफलानां भावः कृतार्थता तां कृतार्यतां = कुलशीलरूपादिसाफल्यम् अगमन् = प्रापुः । ते च=रामलक्ष्मणभरतशत्रुघ्नाश्च ताभिः सीतोमिलामाण्डवीश्रुतकीर्तिभिः जनकपुत्रीभिः तथा = कृतार्थताम् अगमन् , इतिसंबन्धः सः- प्रसिद्धः वराणां == जामातृणां वधूनां = नवपरिणीतानां च समागमः = संयोगः, इति वरवधूसमागमः । “वरो जामातरि" इति मेदिनी। सम्यक् निभातीति संनिभः । प्रत्येति = अर्थविषयकं बोधं जनयतीति प्रत्ययः। प्रकरणं प्रकृतिः । प्रत्ययानां =सनादीनां प्रकृतीनां = धातूनां च योगः = संबन्ध इति प्रत्ययप्रकृतियोगस्तेन संनिभः = सदृशः अभवत् = जातः । यथा धातुप्रत्यययोः सहैकार्थसाधनत्वं तथैवात्रापि वरवधूसंयोगः जगत्कल्याणरूपैकार्थसाधकः इति भावः। समासः-नराणामधिपस्नरय सुताः, नराधिपसुताः। नृपस्य आत्मजास्तैः, नृपात्मजैः । कृतः अर्थः यैस्ते कृतार्थास्तेषां भावः कृतार्थता तां कृतार्थताम् । वराणां वधूनां च समागमः, वरवधूसमागमः। प्रत्ययश्च प्रकृतिश्च प्रत्ययप्रकृती तयोः योगरतेन संनिभः, इति प्रत्ययप्रकृतियोगसंनिभः। यद्वा प्रत्ययप्रकृतियोग इव सम्यक् नितरां भाति = शोभते, इति प्रत्ययप्रकृतियोगसंनिभः। हिन्दी–वे राजा जनक को पुत्रियाँ राजा दशरथजी के पुत्रों से ( मिलकर ) और वे राजकुमार उन राजकुमारियाँ से ( मिलकर ) कृतकृत्य हो गये, अर्थात् अपने-अपने कुल, स्वभाव, तथा अवस्था एवं सौन्दर्य आदि की सफलता को पा गये । और उन कुमार तथा कुमारियों का मिलन ( विवाह ) ऐसा सार्थक हुआ जैसे धातु ( शब्द का मूलरूप, ‘भू , पठ्' ) प्रत्यय ( अर्थ ज्ञान करानेवाला सन् , घञ् , अच् ) का योग सार्थक होता है। विशेष—पच् पठ आदि प्रकृति, ण्वुल, अक् आदि प्रत्यय, पृथक् रहते हुए, किसी अर्थ को प्रकट करने में असमर्थ होने से निरर्थक से रहते हैं। और वेही दोनों मिलकर पाचकः पाठकः शब्द बनकर पकाने वाला, पढाने वाला, रूप अर्थ के वाचक होने से सार्थक बन जाते हैं। वैसे ही वर वधू का मिलन भी सार्थक हो गया ॥ ५६ ॥ एवमात्तरतिरात्मसंभवांस्तान्निवेश्य चतुरोऽपि तत्र सः । अध्वसु त्रिषु विसृष्टमैथिल: स्वां पुरी दशरथो न्यवर्तत ॥ ५७ ।। एवमात्तरतिरनुरागवान्स दशरथस्तांश्चतुरोऽप्यात्मसंभवान्पुत्रांस्तत्र मिथिलायां निवेश्य विवाह्य । 'निवेशः शिबिरोद्वाहविन्यासेषु प्रकीर्तितः' इति विश्वः । विष्वध्वसु प्रयाणेषु सत्सु विसृष्टमैथिलः सन् । खां पुरी न्यवर्तत । उद्देशक्रियापेक्षया कर्मत्वं पुर्याः ॥ अन्वयः-एवम् आत्तरतिः सः दशरथः तान् चतुरः अपि आत्मसम्भवा तत्र निवेश्य त्रियु अध्वसु सत्सु विसृष्टमैथिलः सन् स्वां पुरी न्यवर्तत । व्याख्या एवम् = उक्तप्रकारेण विवाहसम्पादनेन आत्ता प्राप्ता, रतिः = अनुरागः सन्तोषः येन सः आत्तरतिः सः= प्रसिद्धः दशरथः राजा तान् चतुरः चतुःसंख्यकान् रामादीन् अपि आत्मनः = देहात् सम्भवन्ति = जायन्ते इति आत्मसम्भवास्तान् आत्मसम्भवान् = सुतान्
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy