SearchBrowseAboutContactDonate
Page Preview
Page 911
Loading...
Download File
Download File
Page Text
________________ एकादशः सर्गः ३७ विशेष -- इक्ष्वाकु राजा का पुत्र निमि एक समय अपनी स्त्रियों के साथ छूतक्रीड़ा कर रहे थे । उसी समय वशिष्ठजी आ गये, राजाने उन का सत्कार नहीं किया, अतः वशिष्ठजीने राजाको शाप दे दिया, कि तुम्हारा शरीर प्राणहीन हो जाये। तभी राजा ने भी वशिष्ठजी को निष्प्राण होने का शाप दे दिया। दोनों शाप छुड़ाने ब्रह्माजी के पास गये । ब्रह्माजी ने निमि से कहा कि तुम लोगों के नेत्रों में निवास करो। तब लोगों के विश्राम के निमेष ( पलकों का झपकना ) हो गया। पहले पलक नहीं गिरते थे । यही निमिका तात्पर्य है । निमि के शरीर को मथने से मिथि राजा उत्पन्न हुये । जिसने मिथिला बसाई । जनने से जनक कहलाये । ये विना शरीरके थे अतः विदेह कहाते थे - यह मत्स्यपुराण की कथा है ॥ ४९ ॥ अन्वियेष सदृशीं स च स्नुषां प्राप चैनमनुकूलवाद्विजः । सद्य एव सुकृतां हि पच्यते कल्पवृक्षफलधर्मि काङ्क्षितम् ॥ ५० ॥ स दशरथश्च सदृशीमनुरूपां स्नुषामन्त्रियेष । रामविवाहमाचकाङ्क्षत्यर्थः । अनुकूलवाक्स्नुपासिद्धिरूपानुकूलार्थवादी द्विजो जनकपुरोधाश्चैनं दशरथं प्राप । तथाहि । कल्पवृक्ष - फलस्य यो धर्मः सद्यः पाकरूपः सोऽस्यास्तीति कल्पवृक्षफलधर्मि । अतः सुकृतां पुण्यकारिणां काङ्क्षितं मनोरथः सद्य एव पच्यते हि । कर्मकर्तरि लट् । स्वयमेव पक्कं भवतीत्यर्थः । 'कर्मवत्कर्मणा तुल्यक्रियः' इति कर्मवद्भावात् 'भावकर्मणोः' इत्यात्मनेपदम् ॥ श्रन्वयः—सः च सदृशीं स्नुषाम् अन्वियेष, अनुकूलवाक् द्विजः - च एनं प्राप, हि कल्पवृक्षफलधर्मि " अत एव " सुकृतां कांक्षितं सद्यः एव पच्यते । व्याख्या - सः = राजा दशरथः समाना इव पश्यतीति सदृशी तां सदृशीं = सदृक्षीम्, अनुरूपामित्यर्थः । स्नौतीति स्नुषा तां स्नुषां = वधूम् “समाः स्नुषाजनीवध्वः” इत्यमरः । पुत्रभार्यामित्यर्थः । अन्त्रियेष = अभिललाष । अनुकूला = पुत्रविवाहानुरूपा वाक् = वाणी यस्य सः अनुकूलत्राक्_ द्वाभ्यां = जन्मसंस्काराभ्यां जायते इति द्विजः = ब्राह्मणः, जनकस्य पुरोहित इत्यर्थः । “द्विजः स्यात् ब्राह्मणक्षत्रवैश्यदन्ताण्ड जेपु ना" इति मेदिनी । एनं = राजानं दशरथं प्राप = अवाप्तः । हि = तथाहि कल्पस्य = संकल्पितार्थस्य वृक्षस्तस्य फलं तस्य धर्मः = तत्क्षणपाकरूपः, इति कल्पवृक्षफलवर्मः, सोऽस्यास्तीति तत् कल्पवृक्षफलधर्मि सुकृतां = पुण्यवतां कांक्षितम् = अभिलपितं, मनोरथः इत्यर्थः सद्यः = तत्क्षणमेव पच्यते = स्वयमेव पकं जायते । अत्र कर्मकर्तरि प्रत्ययः । समासः --- अनुकूला वाक् यस्य सः अनुकूलत्राक् । कल्पस्य वृक्षः कल्पवृक्षः, कल्पवृक्षस्य फलमिति कल्पवृक्षफलं तस्य धर्मः कल्पवृचफलधर्मः, सोऽस्यास्तीति कल्पवृक्षफलधर्मि । हिन्दी- - राजा दशरथ अपने कुलजाति के योग्य की प्राप्ति के अनुरूप सन्देश ले आने वाले जनक जी के आ गये। ठीक ही है पुण्यवानों का मनोरथ कल्पवृक्ष के स्वयं पकता है । अर्थात् कल्पवृक्ष के समान तुरन्त फल विशेष – स्वर्ग में एक कल्पवृक्ष है । वह वृक्ष पुत्रबधू - खोज ही रहे थे कि पुत्रबधू पुरोहित शतानन्द दशरथ के प फल के समानधर्म वाला तुरन्त हो देने वाला होता है । देवताओं के सभी मनोरथों को इच्छा
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy