SearchBrowseAboutContactDonate
Page Preview
Page 901
Loading...
Download File
Download File
Page Text
________________ एकादशः सर्गः २७ क्षत्राधिदेवते इव स्थितौ । तौ राघवौ विलोचनैः पिबताम् । अत्यास्थया पश्यतामित्यर्थः । विदेहनगरी मिथिला तन्निवासिनां मनः कर्तृ पक्ष्मपातं निमेषमपि तदर्शनप्रतिबन्धकत्वाद्वञ्चनां विडम्बनां मन्यते स्म मेने । 'लट स्मे' इति भूतार्थे लट् ॥ अन्वयः-दिवः गां गतौ पुनर्वसू इव स्थितौ तौ लोचनैः पिबतां विदेहनगरीनिवासिनां मनः ( कर्तृ ) पक्ष्मपातमपि वञ्चनां मन्यते स्म । __व्याख्या-दीव्यन्ति, अस्यां सा द्यौः । तस्याः दिवः =आकाशात् गां = पृथिवों गतौ = प्राप्तौ, अवतीर्णावित्यर्थः पुनर्वसू = एतन्नामनक्षत्रयोः अधिदेवते, इव = यथा तौ राववौ= रामलक्ष्मणौ ( कर्मभूतौ ) विशेषेण लोच्यन्ते पदार्थाः यैस्तानि, तैः विलोचनैः = नेत्रैः पिबताम् = अतितृष्णया पश्यतां विगतः देहः = देहसंबन्धो यस्यासौ विदेहः। विदेहस्य = जनकस्य नगरी = मिथिला तत्र निवासिनः तेषां विदेहनगरीनिवासिनां जनानां मनः = चित्तं ( कर्तृपदम् ) पक्ष्मणां = नेत्रलोम्नां पातः = पतनं, तं पक्षमपातम् = निमेषमपि “पक्ष्माक्षिलोम्नि" इत्यमरः । वञ्चनां = विडम्बनां मन्यते स्म = अमंस्त । श्रीरामलक्ष्मणयोः दर्शनं प्रति निमेषस्य प्रतिबन्धकत्वात् तत्पातं विडम्बनं मेने । समास:-विदेहस्य नगरी, विदेहनगरी, तस्यां निवासिनस्तेषां विदेहनगरीनिवासिनाम् । पक्ष्मणां पातः पक्ष्मपातस्तम् । __हिन्दी-आकाश से पृथिवी पर उतरे हुवे, दो पुनर्वसु नक्षत्रों के समान सुशोभित, उन राम लक्ष्मण को अपने नेत्रों से पो रहे ( बड़ी ही श्रद्धा एवं अनुराग से मगन हो देखने वाले ) जनकपुर के निवासियों, के मन ने आँखों की पलकों के गिरने को भी प्रतारणा (धोखा ) समझा-माना। विशेष-वहाँ के नर नारी श्रीराम लक्ष्मण को ऐसे प्रेमविह्वल होकर देख रहे थे। कि बीच में पलकों का गिरना भी भगवान् के दर्शन में बाधक होने के कारण उन्हें बुरी तरह खटक रहा था। राजा जनक जी बड़े ही आत्मज्ञानी जीवन् मुक्त थे, इसलिये उन्हें विदेह ( जिसका शरीर के साथ सम्बन्ध छूट गया हो ) कहते थे ।। ३६ ॥ यूपवत्यवसिते क्रियाविधौ कालवित्कुशिकवंशवर्धनः । राममिष्वसनदर्शनोत्सुकं मैथिलाय कथयांबभूव सः ॥ ३७ ॥ यूपवति क्रियाविधौ कर्मानुष्ठाने। क्रतावित्यर्थः। अवसिते समाप्ते सति कालविदवसरशः कुशिकवंशवर्धनः स मुनी रामम् । अस्यतेऽनेनेत्यसनम् । इषूणामसनमिष्वसनं चापम् । तस्य दर्शन उत्सुकं मैथिलाय जनकाय कथयांवभूव कथितवान् ॥ अन्वयः-यूपवति क्रियाविधौ अवसिते सति, कालवित् कुशिकवंशवर्धनः सः रामम् इष्वसनदर्शनोत्सुकं मैथिलाय कथयाम्बभूव ।। व्याख्या-यूपः = स्थूणा अस्यास्तीति यूपवान् , तस्मिन् यूपवति = स्थूणावति क्रियायाः = कर्मणः विधिः = अनुष्ठानं तस्मिन् क्रियाविधौ अवसिते = समाप्ते सति कालं वेत्तीति
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy