SearchBrowseAboutContactDonate
Page Preview
Page 890
Loading...
Download File
Download File
Page Text
________________ रघुवंशे अपत्यानि नैतास्तान् = राक्षसान् हन्तीति, तत् नैर्ऋतघ्नम् = राक्षसानां विनाशकमित्यर्थः । मंत्रवत् = समंत्रकम् अस्त्रम् = शस्त्रम् “आयुधं तु प्रहरणं शस्त्रमस्त्रमि"त्यमरः । सूर्यकान्तः = ( स्फटिकः ) मणिविशेषः भाः करोतीति भास्करस्तस्मात् भास्करात् = सूर्यात् , इन्धेऽग्निरेभिः, इन्धनानि = काष्ठानि निपातयतीति, इन्धननिपाति = काष्ठदाहकं ज्योतिः = अग्निम् इव = यथा प्रापत् =प्राप्तवान्। __ समासः-ताडकायाः अन्तकः, ताडकान्तकः। अवदानेन तोषितस्तस्मात् , अवदानतोषितात् । इन्धनानां निपाति, इति इन्धननिपाति तत् । हिन्दी-इसके पश्चात् ताड़का को मारने वाले राम ने "राम के” श्रेष्ठ पराक्रम से प्रसन्न हुवे महर्षि विश्वामित्र से राक्षसों के संहारक अस्त्र को मंत्र सहित उसी प्रकार प्राप्त किया, जिस प्रकार सूर्यकान्तमणि ( स्फटिकमणि ), (आतशी शीशा ) सूर्य से लकड़ियों को जलाने वाली आग को प्राप्त कर लेती है। __विशेष-सूर्यकान्तमणि, आतशी शीशा सूर्य की किरणों के स्पर्श से आग उगलने लगती है और पास में रखी घास फँस जलाने लगती है ।। २१ ॥ वामनाश्रमपदं ततः परं पावनं श्रुतमृरुपेयिवान् । उन्मनाः प्रथमजन्मचेष्टितान्यस्मरन्नपि बभूव राघवः ॥ २२ ॥ ततः परं राघवः । ऋषेः कौशिकादाख्यातुः श्रुतं पावनं शोधनं वामनस्य स्वपूर्वावतारविशेषस्याश्रमपदमुपेयिवानुपगतः सन् । 'उपेयिवाननाश्वाननूचानश्च' इति निपातः। प्रथमजन्मचेष्टितानि रामवामनयोरैक्यात्स्मृतियोग्यान्यपि रामस्याज्ञानावतारत्वेन संस्कारदौर्बल्यादस्मरन्नपि उन्मना उत्सुको बभूव ॥ __ अन्वयः-ततः परं राववः ऋषेः श्रुतं पावनं वामनाश्रमपदम् उपेयिवान् सन् प्रथमजन्मचेष्टितानि अस्मरन् अपि उन्मनाः बभूव । व्याख्या-ततः परं = विश्वामित्रात् शस्त्रप्राप्त्यनन्तरम् राघवः =रामचन्द्रः ऋषेः = विश्वामित्रसकाशात् श्रुतम् = आकर्णितं ज्ञातमित्यर्थः पावयतीति पावनं तत् = शुद्धिकरं पापनाशकमित्यर्थः । आश्राम्यन्ति अत्र, अनेन वा आश्रमः तस्य पदमिति आश्रमपदम् । वामनस्य = त्रिविक्रमस्य, भगवतोऽवतारविशेषस्य आश्रमपदं = वनस्थानम् “आश्रमो ब्रह्मचर्यादौ वानप्रस्थे वने मठे । अस्त्रियामिति मेदिनी। उपेयिवान् = उपगतः सन् प्रथमे = पूर्वस्मिन् जन्मनि = वामनावतारे यानि चेष्टितानि = कर्माणि तानि, लीलाः इत्यर्थः। अस्मरन् = अजानन् अपि, उद्गतं मनोऽस्य, इति उन्मनाः = उत्कण्ठितमनाः बभूव =जातः। यद्यपि रामवामनयोरेकत्वात् तत्तत् जन्मचेष्टितं स्मर्तु योग्यं तथापि श्रीरामस्याज्ञानावतारत्वात् पूर्वजन्मसंस्कारस्य दुर्बलत्वात् स्मृतिर्न जातेति अस्मरन्नपीत्युक्तमिति भावः ।। समासः-वामनस्य आश्रमः वामनाश्रमस्तस्य पदं, तत् वामनाश्रमपदम् । प्रथमे जन्मनि यानि चेष्टितानि, तानि प्रथमजन्मचेष्टितानि । उद्गतं मनोऽस्येति उन्मनाः।
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy